श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ॥ ३२ ॥
ये तु तद्विपरीताः एतत् मम मतम् अभ्यसूयन्तः निन्दन्तः अनुतिष्ठन्ति नानुवर्तन्ते मे मतम् , सर्वेषु ज्ञानेषु विविधं मूढाः तेसर्वज्ञानविमूढान् तान् विद्धि जानीहि

भगवन्मताननुवर्तिनां प्रत्यवायित्वं प्रत्याययति -

ये त्विति ।

तद्विपरीतत्वं भगवन्मतानुवर्तिभ्यो वैपरीत्यम् । तदेव दर्शयति -

एतदित्यादिना ।

अभ्यसूयन्तः - तत्रासन्तमपि दोषमुद्भावयन्त इत्यर्थः । सर्वज्ञानानि - सगुणनिर्गुणविषयाणि । प्रमाणप्रमेयप्रयोजनविभागतो विविधत्वम् ॥ ३२ ॥