श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥ ३६ ॥
अथ केन हेतुभूतेन प्रयुक्तः सन् राज्ञेव भृत्यः अयं पापं कर्म चरति आचरति पूरुषः पुरुषः स्वयम् अनिच्छन् अपि हे वार्ष्णेय वृष्णिकुलप्रसूत, बलात् इव नियोजितः राज्ञेव इत्युक्तो दृष्टान्तः

वाक्यारम्भार्थत्वमथशब्दस्य गृहीत्वा, प्रश्नवाक्यं व्याकरोति -

अथेत्यादिना ।

अनिच्छतोऽपि बलादेव दुश्चरितप्रेरितत्वे दृष्टान्तमाचष्टे -

राज्ञेवेति ।

विनियोज्यत्वस्येच्छासापेक्षत्वात् तदभावे तदसिद्धिमाशङ्क्य, प्रागुक्तं स्मारयति -

राज्ञेवेत्युक्त इति

॥ ३६ ॥