श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
काम एष क्रोध एष रजोगुणसमुद्भवः
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥
ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियःवैराग्यस्याथ मोक्षस्य षण्णां भग इतीङ्गना’ (वि. पु. ६ । ५ । ७४) ऐश्वर्यादिषट्कं यस्मिन् वासुदेवे नित्यमप्रतिबद्धत्वेन सामस्त्येन वर्तते, उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम्वेत्ति विद्यामविद्यां वाच्यो भगवानिति’ (वि. पु. ६ । ५ । ७८) उत्पत्त्यादिविषयं विज्ञानं यस्य वासुदेवः वाच्यः भगवान् इति

भगवच्छब्दार्थं निर्धारयितुं पौराणिकं वचनमुदाहरति -

ऐश्वर्यस्येति ।

समग्रस्येत्येतत् प्रत्येकं विशेषणैः सम्बध्यते । अथ शब्दस्तथाशब्दपर्यायः समुच्चयार्थः । मोक्षशब्देन तदुपायो ज्ञानं विवक्ष्यते ।

उदाहृतवचसस्तात्पर्यमाह -

ऐश्वर्यादीति ।

स वाच्यो भगवानिति सम्बन्धः ।

तत्रैव पौराणिकं वाक्यान्तरं पठति -

उत्पत्तिमिति ।

भृतानामिति प्रत्येकमुत्पत्त्यादिभिः सम्बध्यते । कारणार्थौ च उत्पत्तिप्रलयशब्दौ । क्रियामात्रस्य पुरुषान्तरगोचरत्वसम्भवात् । आगतिर्गतिश्चेत्यागामिन्यौ सम्पदापदौ सूच्येते ।

वाक्यान्तरस्यापि तात्पर्यमाह -

उत्पत्त्यादीति ।

वेत्तीत्युक्तः साक्षात्कारो विज्ञानमित्युच्यते । समग्रैश्वर्यादिसम्पत्तिसमुच्चयार्थश्चकारः ।