श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा
कामरूपेण कौन्तेय दुष्पूरेणानलेन ॥ ३९ ॥
आवृतम् एतेन ज्ञानं ज्ञानिनः नित्यवैरिणा, ज्ञानी हि जानातिअनेन अहमनर्थे प्रयुक्तःइति पूर्वमेवदुःखी भवति नित्यमेवअतः असौ ज्ञानिनो नित्यवैरी, तु मूर्खस्य हि कामं तृष्णाकाले मित्रमिव पश्यन् तत्कार्ये दुःखे प्राप्ते जानाति

प्रतीकमादाय व्याकरोति -

आवृतमित्यादिना ।

ज्ञानिनां प्रति वैरित्वेऽपि, नित्यवैरित्वं कामस्य कथमित्याशङ्क्याह -

ज्ञानी हीति ।

अनर्थप्राप्तिमन्तरेण कामस्य प्रसङ्गावस्था पूर्वमेवेत्युच्यते । अतः शब्देन कामप्रसक्तिरेव परामृश्यते । नित्यमेवेत्युत्पत्त्यवस्था च कामस्य कथ्यते ।

ननु सर्वस्यापि कामात्मता ऩ प्रशस्तेति कामो नित्यवैरी भवति, ततः कुतो ज्ञानिविशेषणमित्याशङ्क्याह -

न त्विति ।

अज्ञस्य नासौ नित्यवैरीत्येतदुपपादयति -

स हीति ।

कार्यप्राप्तिप्रागवस्था पूर्वमित्युक्ता ।