अज्ञम्प्रति वैरित्वे सत्यपि कामस्य नित्यवैरित्वाभावे फलितमाह -
अत इति ।
स्वरूपतो नित्यवैरित्वाविशेषेऽपि ज्ञानाज्ञानाभ्यामवान्तरभेदसिद्धिरित्यर्थः ।
आकाङ्क्षाद्वारा प्रकृतं वैरिणमेव स्फोरयति -
किंरूपेणेत्यादिना
॥ ३९ ॥