श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा
कामरूपेण कौन्तेय दुष्पूरेणानलेन ॥ ३९ ॥
तृष्णया अहं दुःखित्वमापादितःइति, पूर्वमेवअतः ज्ञानिन एव नित्यवैरीकिंरूपेण ? कामरूपेण कामः इच्छैव रूपमस्य इति कामरूपः तेन दुष्पूरेण दुःखेन पूरणमस्य इति दुष्पूरः तेन अनलेन अस्य अलं पर्याप्तिः विद्यते इत्यनलः तेन ॥ ३९ ॥

अज्ञम्प्रति वैरित्वे सत्यपि कामस्य नित्यवैरित्वाभावे फलितमाह -

अत इति ।

स्वरूपतो नित्यवैरित्वाविशेषेऽपि ज्ञानाज्ञानाभ्यामवान्तरभेदसिद्धिरित्यर्थः ।

आकाङ्क्षाद्वारा प्रकृतं वैरिणमेव स्फोरयति -

किंरूपेणेत्यादिना

॥ ३९ ॥