तेषां कामाश्रयत्वे सिद्धे, साश्रयस्य तस्य परिहर्तव्यत्वमाह -
यत इति ।
तस्मात् - इन्द्रियादीनामाश्रयत्वादिति यावत् । पूर्वं - कामनिरोधात् प्रागवस्थायामित्यर्थः । तेषु नियमितेषु मनोबुद्ध्योर्नियमः सिध्यति, तत्प्रवृत्तेरितरप्रवृत्तिव्यतिरेकेणाफलत्वादिति भावः ।