इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥ ४० ॥
इन्द्रियाणि मनः बुद्धिश्च अस्य कामस्य अधिष्ठानम् आश्रयः उच्यते । एतैः इन्द्रियादिभिः आश्रयैः विमोहयति विविधं मोहयति एष कामः ज्ञानम् आवृत्य आच्छाद्य देहिनं शरीरिणम् ॥ ४० ॥