श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इन्द्रियाण्यादौ नियम्य कामं शत्रुं जहिहि इत्युक्तम् ; तत्र किमाश्रयः कामं जह्यात् इत्युच्यते
इन्द्रियाण्यादौ नियम्य कामं शत्रुं जहिहि इत्युक्तम् ; तत्र किमाश्रयः कामं जह्यात् इत्युच्यते

पूर्वोक्तमनूद्य कामत्यागस्य दुष्करत्वं मन्वानो ‘रसोऽप्यस्य’ (भ. गी. २-५९) इत्यत्रोक्तमेव स्पष्टीकर्तुं प्रश्नपूर्वकं श्लोकान्तरमवतारयति -

इन्द्रियाणीत्यादिना ।

पञ्चेति । ज्ञानेन्द्रियवत् । कर्मेन्द्रियाण्यपि वागादीनि गृह्यन्ते ।