श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
योऽयं योगः अध्यायद्वयेनोक्तः ज्ञाननिष्ठालक्षणः , ससंन्यासः कर्मयोगोपायः, यस्मिन् वेदार्थः परिसमाप्तः, प्रवृत्तिलक्षणः निवृत्तिलक्षणश्च, गीतासु सर्वासु अयमेव योगो विवक्षितो भगवताअतः परिसमाप्तं वेदार्थं मन्वानः तं वंशकथनेन स्तौति श्रीभगवान्

पूर्वाभ्यामध्यायाभ्यां निष्ठाद्वयात्मनो योगस्य गीतत्वाद् वेदार्थस्य च समाप्तत्वाद् वक्तव्यशेषाभावाद् उक्तयोगस्य कृत्रिमत्वशङ्कानिवृत्तये वंशकथनपूर्विकां स्तुतिं भगवान् उक्तवानित्याह -

श्रीभगवानिति ।

तदेतद्भगवद्वचनं वृत्तानुवादद्वारेण प्रस्तौति -

योऽयमिति ।

उक्तमेव योगं विभज्यानुवदति-

ज्ञानेति ।

संन्यासेन इतिकर्तव्यतया सहितस्य ज्ञानात्मनो योगस्य  कर्माख्यो योगो हेतुः, अतश्चोपायोपेयभूतं निष्ठाद्वयं प्रतिष्ठापितमित्यर्थः ।

उक्ते योगद्वये प्रमाणमुपन्यस्यति -

यस्मिन्निति ।

अथवा, ज्ञानयोगस्य कर्मयोगोपायत्वमेव स्फृटयति -

यस्मिन्निति ।

प्रवृत्त्या लक्ष्यते -ज्ञायते कर्मयोगः, निवृत्त्या च लक्ष्यते ज्ञानयोग इति विभागः ।

यद्यपि पूर्वस्मिन् अध्यायद्वये यथोक्तनिष्ठाद्वयं व्याख्यातं, तथाऽपि वक्ष्यमाणाध्यायेषु वक्तव्यान्तरमस्तीत्याशङ्क्याह -

गीतासु चेति ।

कथं तर्हि समनन्तराध्यायस्य प्रवृत्तिः ? अत आह -

अत इति ।

वंशकथनं -सम्प्रदायोपन्यासः । सम्प्रदायोपदेशश्च कृत्रिमत्वशङ्कानिवृत्त्या योगस्तुतौ पर्यवस्यति ।