गुरुशिष्यपरम्परोपन्यासमेवानुक्रामति -
इममिति ।
इममित्यस्य सन्निहितं विषयं दर्शयति -
अध्यायेति ।
योगं - ज्ञाननिष्ठालक्षणं, कर्मयोगोपायलभ्यमित्यर्थः ।
स्वयम् अकृतार्थानां प्रयोजनव्यग्राणां परार्थप्रवृत्त्यसम्भवाद् भगवतस्तथाविधप्रवृत्तिदर्शनात् कृतार्थता कल्पनीयेत्याह -
विवस्वत इति ।
अव्ययवेदमूलत्वादव्ययत्वं योगस्य गमयितव्यम् ।
किमिति भगवता कृतार्थेनापि योगप्रवचनं कृतमिति, तदाह -
जगदिति ।
कथं यथोक्तेन योगेन क्षत्रियाणां बलाधानं ? तदाह -
तेनेति ।
युक्ताः, क्षत्रिया इति शेषः ।
ब्रह्मशब्देन ब्राह्मणत्वजातिरुच्यते । यद्यपि योगप्रवचनेन क्षत्रं रक्षितं, तेन च ब्राह्मणत्वं, तथाऽपि कथं रक्षणीयं जगदशेषं रक्षितम् ? इत्याशङ्क्याह -
ब्रह्मेति ।
ताभ्यां हि कर्मफलभूतं जगद् अनुष्ठानद्वारा रक्षितुं शक्यमित्यर्थः ।
योगस्याव्ययत्वे हेत्वन्तरमाह -
अव्ययफलत्वादिति ।
ननु कर्मफलवत् उक्तयोगफलस्यापि साध्यत्वेन क्षयिष्णुत्वमनुमीयते, नेत्याह -
नहीति ।
अपुनरावृत्तिश्रुतिप्रतिहतमनुमानं न प्रमाणीभवतीति भावः ।
भगवता विवस्वते प्रोक्तो योगस्तत्रैव पर्यवस्यति, इत्याशङ्क्याह -
स चेति ।
स्वपुत्रायेत्युभयत्र सम्बध्यते । आदिराजायेति इक्ष्वाकोः सूर्यवंशप्रवर्तकत्वेन वैशिष्ट्यमुच्यते ॥ १ ॥