श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः
कालेने महता योगो नष्टः परन्तप ॥ २ ॥
एवं क्षत्रियपरम्पराप्राप्तम् इमं राजर्षयः राजानश्च ते ऋषयश्च राजर्षयः विदुः इमं योगम् योगः कालेन इह महता दीर्घेण नष्टः विच्छिन्नसम्प्रदायः संवृत्तःहे परन्तप, आत्मनः विपक्षभूताः परा इति उच्यन्ते, तान् शौर्यतेजोगभस्तिभिः भानुरिव तापयतीति परन्तपः शत्रुतापन इत्यर्थः ॥ २ ॥

यथोक्ते योगे परम्परागते विशिष्टजनसम्मतिमुदाहरति -

एवमिति ।

तस्य कथं सम्प्रति वक्तव्यत्वं, तदाह -

स कालेनेति ।

पूर्वार्धं व्याकरोति -

एवमित्यादिना ।

ऐश्वर्यसम्पत्ती राजत्वं येषां, तेषामेव सृक्ष्मार्थनिरीक्षणक्षमत्वमृषित्वम् । इहेति भगवतोऽर्जुनेन सह संव्यवहारकालो गृह्यते ।

परन्तपेति सम्बोधनं विभजते -

आत्मन इति

॥ २ ॥