श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दुर्बलानजितेन्द्रियान् प्राप्य नष्टं योगमिममुपलभ्य लोकं अपुरुषार्थसम्बन्धिनम्
दुर्बलानजितेन्द्रियान् प्राप्य नष्टं योगमिममुपलभ्य लोकं अपुरुषार्थसम्बन्धिनम्

किमिति वर्तमाने काले प्रकृतो योगः सम्प्रदायरहितोऽभूदित्याशङ्क्य, अधिकार्यभावादित्याह -

दुर्बलानिति ।

तदेव दौर्बल्यं प्रकृतोपयोगित्वेन व्याकरोति -

अजितेन्द्रियानिति ।

यद्यपि कामक्रोधादिप्रधानान् पुरुषान् प्रतिलभ्य कामक्रोधादिभिरभिभूयमानो योगः नष्टः - विच्छिन्नसम्प्रदायः सञ्जातः, तथाऽपि योगादृते पुरुषार्थो लोकस्य लभ्यते चेत् - किमनेन योगोपदेशेनेत्याशङ्क्य, यथोक्तयोगाभाबे परमपुरुषार्थाप्राप्तेर्मैवमित्यह -

लोकं चेति ।