श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अजोऽपि सन्नव्ययात्मा
भूतानामीश्वरोऽपि सन्
प्रकृतिं स्वामधिष्ठाय
सम्भवाम्यात्ममायया ॥ ६ ॥
अजोऽपि जन्मरहितोऽपि सन् , तथा अव्ययात्मा अक्षीणज्ञानशक्तिस्वभावोऽपि सन् , तथा भूतानां ब्रह्मादिस्तम्बपर्यन्तानाम् ईश्वरः ईशनशीलोऽपि सन् , प्रकृतिं स्वां मम वैष्णवीं मायां त्रिगुणात्मिकाम् , यस्या वशे सर्वं जगत् वर्तते, यया मोहितं सत् स्वमात्मानं वासुदेवं जानाति, तां प्रकृतिं स्वाम् अधिष्ठाय वशीकृत्य सम्भवामि देहवानि भवामि जात इव आत्ममायया आत्मनः मायया, परमार्थतो लोकवत् ॥ ६ ॥

पारमार्थिकजन्मायोगे कारणं पूर्वार्धेनानूद्य, प्रातिभासिकजन्मसम्भवे कारणमाह -

प्रकृतिमिति ।

प्रकृतिशब्दस्य स्वरूपविषयत्वं प्रत्यादेष्टुम् आत्ममायया इत्युक्तम् ।

वस्तुतो जन्माभावे कारणानुवादभागं विवृणोति -

अजोऽपीत्यादिना ।

प्रातिभासिकजन्मसम्भवे कारणकथनपरमुत्तरार्धं विभजते -

प्रकृतिमित्यादिना ।

प्रकृतिशब्दस्य स्वरूपशब्दपर्यायत्वं वारयति -

मायामिति ।

तस्याः स्वातन्त्र्यं निराकृत्य भगवदधीनत्वमाह -

ममेति ।

तस्याश्चाधिकरणद्वारेणावच्छिन्नत्वं सूचयति -

वैष्णवीमिति ।

मायाशब्दस्यापि प्रज्ञानामसु पाठाद् विज्ञानशक्तिविषयत्वमाशङ्क्याह -

त्रिगुणात्मिकामिति ।

तस्याः कार्यलिङ्गकमनुमानं सूचयति -

यस्या इति ।

जगतो मायावशवर्तित्वमेव स्फुटयति -

ययेति ।

यथा लोके कश्चिज्जातो देहवानालक्ष्यते, एवमहमपि मायामाश्रित्यत्या स्ववशया सम्भवामि - जन्मव्यवहारमनुभवामि, तेन मायामयमीश्वरस्य जन्मेत्याह -

तां प्रकृतिमित्यादिना ।

सम्भवामीत्युक्तमेव विभजते -

देहवानिति ।

अस्मदादेरिव तवापि परमार्थत्वाभिमानो जन्मादिविषये स्यादित्याशङ्क्य, प्रागुक्तस्वरूपपरिज्ञानवत्त्वादीश्वरस्य मैवमित्याह –

न परमार्थत इति ।

आवृतज्ञानवतो लोकस्य जन्मादिविषये परमार्थत्वाभिमानः सम्भवतीत्याह -

लोकवदिति

॥ ६ ॥