पारमार्थिकजन्मायोगे कारणं पूर्वार्धेनानूद्य, प्रातिभासिकजन्मसम्भवे कारणमाह -
प्रकृतिमिति ।
प्रकृतिशब्दस्य स्वरूपविषयत्वं प्रत्यादेष्टुम् आत्ममायया इत्युक्तम् ।
वस्तुतो जन्माभावे कारणानुवादभागं विवृणोति -
अजोऽपीत्यादिना ।
प्रातिभासिकजन्मसम्भवे कारणकथनपरमुत्तरार्धं विभजते -
प्रकृतिमित्यादिना ।
प्रकृतिशब्दस्य स्वरूपशब्दपर्यायत्वं वारयति -
मायामिति ।
तस्याः स्वातन्त्र्यं निराकृत्य भगवदधीनत्वमाह -
ममेति ।
तस्याश्चाधिकरणद्वारेणावच्छिन्नत्वं सूचयति -
वैष्णवीमिति ।
मायाशब्दस्यापि प्रज्ञानामसु पाठाद् विज्ञानशक्तिविषयत्वमाशङ्क्याह -
त्रिगुणात्मिकामिति ।
तस्याः कार्यलिङ्गकमनुमानं सूचयति -
यस्या इति ।
जगतो मायावशवर्तित्वमेव स्फुटयति -
ययेति ।
यथा लोके कश्चिज्जातो देहवानालक्ष्यते, एवमहमपि मायामाश्रित्यत्या स्ववशया सम्भवामि - जन्मव्यवहारमनुभवामि, तेन मायामयमीश्वरस्य जन्मेत्याह -
तां प्रकृतिमित्यादिना ।
सम्भवामीत्युक्तमेव विभजते -
देहवानिति ।
अस्मदादेरिव तवापि परमार्थत्वाभिमानो जन्मादिविषये स्यादित्याशङ्क्य, प्रागुक्तस्वरूपपरिज्ञानवत्त्वादीश्वरस्य मैवमित्याह –
न परमार्थत इति ।
आवृतज्ञानवतो लोकस्य जन्मादिविषये परमार्थत्वाभिमानः सम्भवतीत्याह -
लोकवदिति
॥ ६ ॥