ईश्वरस्य कारणाभावात् जन्मैवायुक्तम् , अतीतानेकजन्मवत्त्वं तु दूरोत्सारितमिति शङ्कते -
कथमिति ।
वस्तुतो जन्माभावेऽपि मायावशाज्जन्म सम्भवतीत्युत्तरमाह -
उच्यत इति ।