किञ्च, कर्मादेर्मायामात्रत्वाद् गौणमपि तद्विषयं ज्ञानं मिथ्याज्ञानमिति, न तस्य बोद्धव्यत्वसिद्धिरित्याह -
नचेति ।
मिथ्याज्ञानस्य बोद्धव्यत्वाभावेऽपि तद्विषयस्य बोद्धव्यता सिध्येदित्याशङ्क्याह वस्त्वाभासत्वात् मैवमित्याह -
तत्प्रत्युपस्थापितं वेति ।
यत्पुनरकरणस्य प्रत्यवायहेतुत्वम् , अकरणे गौण्या वृत्त्या कर्मशब्दप्रयोगे निमित्तमिति, तद् दूषयति -
नापीति ।
अकरणात् प्रत्यवायो भवतीत्यत्र श्रृतिस्मृतिविरोधमभिदधाय, युक्तिविरोधमभिधाति -
असत इति ।
असतः सद्रूपेण भवनमभवनं च निःस्वरूपत्वादनुपपन्नम् - निरस्तसमस्ततत्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्यसद्रूपेण भवनमभवनं च निः स्वरूपत्वादनुपपन्नम् - निरस्तसमस्ततत्त्वस्य किञ्चित् तत्त्वाभ्युपगमे सर्वप्रमाणानामप्रामाण्य प्रसङ्गादित्याह -
तच्चेति ।
यत्तु नित्यानां फलराहित्यं तत्राकर्मशब्दप्रयोगे निमित्तमिति, तन्निरस्यति -
नचेति ।
न केवलं विध्युद्देशे स्वफलाभावान्नित्यानां विध्यनुपपत्तिः, अपितु धात्वर्थस्य क्लेशात्मकत्वात् तत्र श्रुतफलाभावे नैव विधिरवकाशमासादयेदित्याह -
दुःखेति ।
दुःखरूपस्यापि धात्वर्थस्य साध्यत्वेन कार्यत्वात् तद्विषयो विधिः स्यादिति चेन्नेत्याह -
दुःखस्य चेति ।
स्वर्गादिफलाभावेऽपि नित्यानामकरणनिमित्तनिरयनिरासार्थं दुःखरूपाणामपि स्यादनुष्ठेयत्वमित्याशङ्क्य आह -
तदकरणे चेति ।
फलान्तराभावेऽपि मोक्षसाधनत्वाद् मुमुक्षुणा नित्यानि कर्माण्यनुष्ठेयानीत्याशङ्क्याह -
स्वाभ्युपगमेति ।
वृत्तिकारव्याख्यानासद्भावे फलितमुपसंहरति -
तस्मादिति ।
कोऽसौ यथाश्रुतोऽर्थः श्लोकस्येत्याशङ्क्य आह -
तथाचेति
॥ १८ ॥