श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥ २१ ॥
निराशीः निर्गताः आशिषः यस्मात् सः निराशीः, यतचित्तात्मा चित्तम् अन्तःकरणम् आत्मा बाह्यः कार्यकरणसङ्घातः तौ उभावपि यतौ संयतौ येन सः यतचित्तात्मा, त्यक्तसर्वपरिग्रहः त्यक्तः सर्वः परिग्रहः येन सः त्यक्तसर्वपरिग्रहः, शारीरं शरीरस्थितिमात्रप्रयोजनम् , केवलं तत्रापि अभिमानवर्जितम् , कर्म कुर्वन् आप्नोति प्राप्नोति किल्बिषम् अनिष्टरूपं पापं धर्मं धर्मोऽपि मुमुक्षोः किल्बिषमेव बन्धापादकत्वात्तस्मात् ताभ्यां मुक्तः भवति, संसारात् मुक्तो भवति इत्यर्थः

आशिषां विदुषो निर्गतत्वे हेतुमाह -

यतेति ।

चित्तवत् आत्मनः सन्यमनं कथम् ? इत्याशङ्क्याह -

आत्मा बाह्य इति ।

द्वयोः संयमने सति अर्थसिद्धमर्थमाह -

त्यक्तेति ।

सर्वपरिग्रहपरित्यागे देहस्थितिरपि दुःस्था स्यात् , इत्याशङ्र्याह -

शरीरमिति ।

मात्रशब्देन पौनरुक्त्यादनर्थकं केवलपदम् , इत्याशङ्क्याह-

तत्रापीति ।

शारीरं केवलमित्यादौ शारीरपदार्थं स्फुटीकर्तुमुभयथा सम्भावनया विकल्पयति -

शारीरमिति ।