श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
ब्रह्म अर्पणं येन करणेन ब्रह्मवित् हविः अग्नौ अर्पयति तत् ब्रह्मैव इति पश्यति, तस्य आत्मव्यतिरेकेण अभावं पश्यति, यथा शुक्तिकायां रजताभावं पश्यति ; तदुच्यते ब्रह्मैव अर्पणमिति, यथा यद्रजतं तत् शुक्तिकैवेति । ‘ब्रह्म अर्पणम्’ इति असमस्ते पदे । यत् अर्पणबुद्ध्या गृह्यते लोके तत् अस्य ब्रह्मविदः ब्रह्मैव इत्यर्थः । ब्रह्म हविः तथा यत् हविर्बुद्ध्या गृह्यमाणं तत् ब्रह्मैव अस्य । तथा ‘ब्रह्माग्नौ’ इति समस्तं पदम् । अग्निरपि ब्रह्मैव यत्र हूयते ब्रह्मणा कर्त्रा, ब्रह्मैव कर्तेत्यर्थः । यत् तेन हुतं हवनक्रिया तत् ब्रह्मैव । यत् तेन गन्तव्यं फलं तदपि ब्रह्मैव ब्रह्मकर्मसमाधिना ब्रह्मैव कर्म ब्रह्मकर्म तस्मिन् समाधिः यस्य सः ब्रह्मकर्मसमाधिः तेन ब्रह्मकर्मसमाधिना ब्रह्मैव गन्तव्यम् ॥

अर्पणशब्दस्य करणविषयत्वं दर्शयन्नर्पणं ब्रह्मेति पदद्वयपक्षे सामानाधिकरण्यं साधयति -

येनेति ।

यद्रजतं सा शुक्तिरितिवद् बाधायामिदं सामानाधिकरण्यमित्याह -

तस्येति ।

तत्र दृष्टान्तमाह -

यथेति ।

उक्तेऽर्थे पदद्वयमवतारयति -

तद्वदुच्यत इति ।

उक्तमेवार्थं स्पष्टयति -

यथा यदिति ।

समासशङ्कां व्यावर्तयति -

ब्रह्मेति ।

पदद्वयपक्षे विवक्षितमर्थं कथयति -

यदर्पणेति ।

ब्रह्म हविरिति पदद्वयमवतार्य व्याचष्टे -

ब्रह्मेत्यादिना ।

यदर्पणबुद्ध्या गृह्यते तद्ब्रह्मविदो ब्रह्मैवेति यथोक्तं, तथेहापीत्याह -

तथेति ।

अस्येति षष्ठी ब्रह्मविदमधिकरोति ।

पूर्ववदसमासमाशङ्क्य व्यावर्तयन् पदान्तरमवतार्य व्याकरोति -

तथेति ।

प्रागुक्तासमासवदिति व्यतिरेकः ।

तत्र विवक्षितमर्थमाह -

अग्निरपीति ।

ब्रह्मणेति पदस्याभिमतमर्थमाह -

ब्रह्मणेति ।

कर्त्रा हूयत इति सम्बन्धः ।

कर्ता ब्रह्मणः सकाशाद् व्यतिरिक्तो नास्तीत्येतदभिमतम् , इत्याह -

ब्रह्मैवेति ।

हुतमित्यस्य विवक्षितमर्थमाह -

यत्तेनेति ।

ब्रह्मैव तेनेत्यादि भागं विभजते -

ब्रह्मैवेत्यादिना ।

‘ब्रह्म कर्म’ इत्याद्यवतार्य व्याकरोति -

ब्रह्मेति ।

कर्मत्वं ब्रह्मणो ज्ञेयत्वात् प्राप्यत्वाच्च प्रतिपत्तव्यम् ।