श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम्
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ २४ ॥
एवं लोकसङ्ग्रहं चिकीर्षुणापि क्रियमाणं कर्म परमार्थतः अकर्म, ब्रह्मबुद्ध्युपमृदितत्वात् । एवं सति निवृत्तकर्मणोऽपि सर्वकर्मसंन्यासिनः सम्यग्दर्शनस्तुत्यर्थं यज्ञत्वसम्पादनं ज्ञानस्य सुतरामुपपद्यते ; यत् अर्पणादि अधियज्ञे प्रसिद्धं तत् अस्य अध्यात्मं ब्रह्मैव परमार्थदर्शिन इति । अन्यथा सर्वस्य ब्रह्मत्वे अर्पणादीनामेव विशेषतो ब्रह्मत्वाभिधानम् अनर्थकं स्यात् । तस्मात् ब्रह्मैव इदं सर्वमिति अभिजानतः विदुषः कर्माभावः । कारकबुद्ध्यभावाच्च । न हि कारकबुद्धिरहितं यज्ञाख्यं कर्म दृष्टम् । सर्वमेव अग्निहोत्रादिकं कर्म शब्दसमर्पितदेवताविशेषसम्प्रदानादिकारकबुद्धिमत् कर्त्रभिमानफलाभिसन्धिमच्च दृष्टम् ; न उपमृदितक्रियाकारकफलभेदबुद्धिमत् कर्तृत्वाभिमानफलाभिसन्धिरहितं वा । इदं तु ब्रह्मबुद्ध्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धि कर्म । अतः अकर्मैव तत् । तथा च दर्शितम् ‘कर्मण्यकर्म यः पश्येत्’ (भ. गी. ४ । १८) ‘कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः’ (भ. गी. ४ । २०) ‘गुणा गुणेषु वर्तन्ते’ (भ. गी. ३ । २८) ‘नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्’ (भ. गी. ५ । ८) इत्यादिभिः । तथा च दर्शयन् तत्र तत्र क्रियाकारकफलभेदबुद्ध्युपमर्दं करोति । दृष्टा च काम्याग्निहोत्रादौ कामोपमर्देन काम्याग्निहोत्रादिहानिः । तथा मतिपूर्वकामतिपूर्वकादीनां कर्मणां कार्यविशेषस्य आरम्भकत्वं दृष्टम् । तथा इहापि ब्रह्मबुद्ध्युपमृदितार्पणादिकारकक्रियाफलभेदबुद्धेः बाह्यचेष्टामात्रेण कर्मापि विदुषः अकर्म सम्पद्यते । अतः उक्तम् ‘समग्रं प्रविलीयते’ (भ. गी. ४ । २०) इति ॥

एवं ब्रह्मार्पणमन्त्रस्याक्षरार्थमुक्त्वा तात्पर्यार्थमाह -

एवमिति ।

निवृत्तकर्माणं संन्यासिनं प्रति कथमस्य मन्त्रस्य प्रवृत्तिः ? इत्याशङ्क्याह -

निवृत्तेति ।

यथा बाह्ययज्ञानुष्ठानासमर्थस्याज्ञस्य सङ्कल्पात्मकयज्ञो दृष्टः, तथा ज्ञानस्य यज्ञत्वसम्पादनं स्तुत्यर्थं सुतरामुपपद्यते, तेन स्तुतिलाभात् कल्पनायाः स्वाधीनत्वाच्चेत्यर्थः ।

ज्ञानस्य यज्ञत्वसम्पादनमभिनयति  -

यदर्पणादीति ।

केन प्रमाणेनात्र यज्ञत्वसम्पादनमवगतम् ? इत्याशङ्क्य, अर्पणादीनां विशेषतो ब्रह्मत्वाभिधानानुपपत्त्या, इत्वाह -

अन्यथेति ।

ज्ञानस्य यज्ञत्वे सम्पादिते फलितमाह -

तस्मादिति ।

‘आत्मैवेदं सर्वम्’ (छा. उ. ७-२५-२) इत्यात्मव्यतिरेकेण सर्वस्यावस्तुत्व प्रतिपाद्यमानस्य कर्माभावे हेत्वन्तरमाह -

कारकेति ।

कारकबुद्धेस्तेष्वभिमानस्याभावेऽपि किमिति कर्म न स्याद् ? इत्याशङ्क्याह -

नहीति ।

उक्तमेवान्वयव्यतिरेकाभ्यां द्राढयति -

सर्वमेवेति ।

‘इन्द्राय’ इत्यादिना शब्देन समर्पितो देवताविशेषः सम्प्रदानं  कारकम् , आदि शब्दाद् व्रीह्यादिकरणकारकं तद्विषयबुद्धिमत् , कर्ताऽ स्मीत्यभिमानपूर्वकं भोक्ष्ये फलमस्येति फलभिसन्धिमच्च कर्म दृष्टमिति योजना ।

अन्वयमुक्त्वा व्यतिरेकमाह -

नेत्यादिना ।

उपमृदिता क्रियादिभेदविषया बुद्धिर्यस्य तत्कर्म । तथा कर्तृत्वाभिमानपूर्वको भोक्ष्ये फलमस्येति योऽभिसन्धिस्तेन रहितं च न कर्म दृष्टमित्यन्वयः ।

तथाऽपि  ब्रह्मविदो भासमानकर्माभावे किमायातम् ? इत्याशङ्क्याह -

इदमिति ।

यदिदं ब्रह्मविदो दृश्यमानम् कर्म, तदहमस्मि ब्रह्मेति बुद्ध्या निराकृतकारकादिभेदविषयबुद्धिमत् । अतश्च कर्मैव न भवति । तत्त्वज्ञाने सति व्यापकं कारकादि, व्यावर्तमानं व्याप्यं कर्मापि व्यावर्तयति । तत्त्वविदः शरीरादिचेष्टा, कर्माभावः कर्मव्यापकरहितत्वात् सुषुप्तचेष्टावदित्यर्थः ।

ज्ञानवतो दृश्यमानं कर्म अकर्मैवेत्यत्र भगवदनुमतिमाह -

तथाचेति ।

ब्रह्मविदो दृष्टं कर्म नास्तीत्युक्तेऽपि तत्कारणानुपमर्दात् पुनर्भविष्यति इत्याशङ्क्याह -

तथाच दर्शयन्निति ।

अविद्वानिव विद्वानपि कर्मणि प्रवर्तमानो दृश्यते । तथाऽपि तस्य कर्म अकर्मैव इत्यत्र दृष्टान्तमाह -

दृष्टा चेति ।

विद्वत्कर्मापि कर्मत्वाविशेषादितरकर्मवत् फलारम्भकमित्यपि शङ्का न युक्तेत्याह -

तथेति ।

इदं कर्म एवं कर्तव्यम् , अस्य च फलं भोक्तव्यमितिमतिः, तत्पूर्वकाणि अतत्पूर्वकाणि च कर्माणि । तेषामवान्तरभेदसङ्ग्रसन्ग्रहार्थमादिपदम् । दार्ष्टान्तिकमाह -

तथेति ।

सप्तम्या विद्वत्प्रकरणं परामृष्टम् । षष्ठ्यौ समानाधिकरणे । उक्तेऽर्थे पूर्ववाक्यमनुकूलयति -

अत इति ।