श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दैवमेवापरे यज्ञं योगिनः पर्युपासते
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥
दैवमेव देवा इज्यन्ते येन यज्ञेन असौ दैवो यज्ञः तमेव अपरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्तीत्यर्थःब्रह्माग्नौ सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १)विज्ञानमानन्दं ब्रह्मयत् साक्षादपरोक्षात् ब्रह्म आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) इत्यादिवचनोक्तम् अशनायादिसर्वसंसारधर्मवर्जितम् नेति नेति’ (बृ. उ. ४ । ४ । २२) इति निरस्ताशेषविशेषं ब्रह्मशब्देन उच्यतेब्रह्म तत् अग्निश्च सः होमाधिकरणत्वविवक्षया ब्रह्माग्निःतस्मिन् ब्रह्माग्नौ अपरे अन्ये ब्रह्मविदः यज्ञम्यज्ञशब्दवाच्य आत्मा, आत्मनामसु यज्ञशब्दस्य पाठात्तम् आत्मानं यज्ञं परमार्थतः परमेव ब्रह्म सन्तं बुद्ध्याद्युपाधिसंयुक्तम् अध्यस्तसर्वोपाधिधर्मकम् आहुतिरूपं यज्ञेनैव आत्मनैव उक्तलक्षणेन उपजुह्वति प्रक्षिपन्ति, सोपाधिकस्य आत्मनः निरुपाधिकेन परब्रह्मस्वरूपेणैव यद्दर्शनं तस्मिन् होमः तं कुर्वन्ति ब्रह्मात्मैकत्वदर्शननिष्ठाः संन्यासिनः इत्यर्थः ॥ २५ ॥

सर्वस्य श्रेयःसाधनस्य मुख्यगौणवृत्तिभ्यां यज्ञत्वं दर्शयन्नादौ यज्ञद्वयमादर्शयति -

दैवमेवेत्यादिना ।

प्रतीकमादाय दैवयज्ञं व्याचष्टे -

देवा इति ।

सम्यग्ज्ञानाख्यं यज्ञं विभजते -

ब्रह्माग्नाविति ।

तत्र ब्रह्मशब्दार्थं श्रृत्यवष्टम्भेन स्पष्टयति -

सत्यमिति ।

यदजडम् अनृतविपरीतम् अपरिच्छिन्नं ब्रह्म, तस्य परमानन्दत्वेन परमपुरुषार्थत्वमाह -

विज्ञानमिति ।

तस्य ज्ञानाधिकरणत्वेन ज्ञानत्वमौपचारिकम् , इत्याशङ्क्याह -

यत्साक्षादिति ।

जीवब्रह्मविभागे कथमपरिच्छिन्नत्वम् ? इत्याशङ्क्य विशिनष्टि -

य आत्मेति ।

परस्यैवात्मत्वं सर्वस्माद् देहादेरव्याकृतान्तात् आन्तरत्वेन साधयति -

सर्वान्तर इति ।

विधिमुखं सर्वमेवोपनिषद्वाक्यं ब्रह्मविषयमादिशब्दार्थः ।

निषेधमुखं ब्रह्मविषयमुपनिषद्वाक्यमशेषमेवार्थतो निबध्नाति -

अशनायेति ।

ब्रह्मण्यग्निशब्दप्रयोगे निमित्तमाह -

स होमेति ।

बुद्ध्यारूढतया सर्वस्य दाहकत्वात् विलयस्य वा हेतुत्वादिति द्रष्टव्यम् ।

यज्ञशब्दस्यात्मनि त्वम्पदार्थे प्रयोगे हेतुमाह -

आत्मनामस्विति ।

आधाराधेयभावेन वास्तवभेदं ब्रह्मात्मनोर्व्यावर्तयतिं -

परमार्थत इति ।

कथं तर्हि होमः ? नहि तस्यैव तत्र होमः सम्भवति, इत्याशङ्क्याह -

बुद्ध्यादीति ।

उपाधिसम्योगफलं कथयति -

अध्यस्तेति ।

उपाध्यध्यासद्वारा तद्धर्माध्यासे प्राप्तमर्थं निर्दिशति -

आहुतीति ।

इत्थम्भूतलक्षणां तृतीयामेव व्याकरोति -

उक्तेति ।

अशनायादिसर्वसंसारधर्मवर्जितेन निर्विशेषेण स्वरूपेणेति यावत् ।

आत्मनो ब्रह्मणि होममेव प्रकटयति -

सोपाधिकस्येति ।

अपर इत्यस्यार्थं स्फोरयति -

ब्रह्मेति ।

उक्तस्य ज्ञानयज्ञस्य दैवयज्ञादिषु ‘ब्रह्मार्पणम्’ इत्यादिश्लोकैरूपक्षिप्यमाणत्वं दर्शयति -

सोऽयमिति ।

उपक्षेपप्रयोजनमाह -

श्रेयानिति

॥ २५ ॥