सर्वस्य श्रेयःसाधनस्य मुख्यगौणवृत्तिभ्यां यज्ञत्वं दर्शयन्नादौ यज्ञद्वयमादर्शयति -
दैवमेवेत्यादिना ।
प्रतीकमादाय दैवयज्ञं व्याचष्टे -
देवा इति ।
सम्यग्ज्ञानाख्यं यज्ञं विभजते -
ब्रह्माग्नाविति ।
तत्र ब्रह्मशब्दार्थं श्रृत्यवष्टम्भेन स्पष्टयति -
सत्यमिति ।
यदजडम् अनृतविपरीतम् अपरिच्छिन्नं ब्रह्म, तस्य परमानन्दत्वेन परमपुरुषार्थत्वमाह -
विज्ञानमिति ।
तस्य ज्ञानाधिकरणत्वेन ज्ञानत्वमौपचारिकम् , इत्याशङ्क्याह -
यत्साक्षादिति ।
जीवब्रह्मविभागे कथमपरिच्छिन्नत्वम् ? इत्याशङ्क्य विशिनष्टि -
य आत्मेति ।
परस्यैवात्मत्वं सर्वस्माद् देहादेरव्याकृतान्तात् आन्तरत्वेन साधयति -
सर्वान्तर इति ।
विधिमुखं सर्वमेवोपनिषद्वाक्यं ब्रह्मविषयमादिशब्दार्थः ।
निषेधमुखं ब्रह्मविषयमुपनिषद्वाक्यमशेषमेवार्थतो निबध्नाति -
अशनायेति ।
ब्रह्मण्यग्निशब्दप्रयोगे निमित्तमाह -
स होमेति ।
बुद्ध्यारूढतया सर्वस्य दाहकत्वात् विलयस्य वा हेतुत्वादिति द्रष्टव्यम् ।
यज्ञशब्दस्यात्मनि त्वम्पदार्थे प्रयोगे हेतुमाह -
आत्मनामस्विति ।
आधाराधेयभावेन वास्तवभेदं ब्रह्मात्मनोर्व्यावर्तयतिं -
परमार्थत इति ।
कथं तर्हि होमः ? नहि तस्यैव तत्र होमः सम्भवति, इत्याशङ्क्याह -
बुद्ध्यादीति ।
उपाधिसम्योगफलं कथयति -
अध्यस्तेति ।
उपाध्यध्यासद्वारा तद्धर्माध्यासे प्राप्तमर्थं निर्दिशति -
आहुतीति ।
इत्थम्भूतलक्षणां तृतीयामेव व्याकरोति -
उक्तेति ।
अशनायादिसर्वसंसारधर्मवर्जितेन निर्विशेषेण स्वरूपेणेति यावत् ।
आत्मनो ब्रह्मणि होममेव प्रकटयति -
सोपाधिकस्येति ।
अपर इत्यस्यार्थं स्फोरयति -
ब्रह्मेति ।
उक्तस्य ज्ञानयज्ञस्य दैवयज्ञादिषु ‘ब्रह्मार्पणम्’ इत्यादिश्लोकैरूपक्षिप्यमाणत्वं दर्शयति -
सोऽयमिति ।
उपक्षेपप्रयोजनमाह -
श्रेयानिति
॥ २५ ॥