श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दैवमेवापरे यज्ञं योगिनः पर्युपासते
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥
दैवमेव देवा इज्यन्ते येन यज्ञेन असौ दैवो यज्ञः तमेव अपरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्तीत्यर्थः । ब्रह्माग्नौ ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) ‘विज्ञानमानन्दं ब्रह्म’ ‘यत् साक्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) इत्यादिवचनोक्तम् अशनायादिसर्वसंसारधर्मवर्जितम् ‘नेति नेति’ (बृ. उ. ४ । ४ । २२) इति निरस्ताशेषविशेषं ब्रह्मशब्देन उच्यते । ब्रह्म च तत् अग्निश्च सः होमाधिकरणत्वविवक्षया ब्रह्माग्निः । तस्मिन् ब्रह्माग्नौ अपरे अन्ये ब्रह्मविदः यज्ञम् — यज्ञशब्दवाच्य आत्मा, आत्मनामसु यज्ञशब्दस्य पाठात् — तम् आत्मानं यज्ञं परमार्थतः परमेव ब्रह्म सन्तं बुद्ध्याद्युपाधिसंयुक्तम् अध्यस्तसर्वोपाधिधर्मकम् आहुतिरूपं यज्ञेनैव आत्मनैव उक्तलक्षणेन उपजुह्वति प्रक्षिपन्ति, सोपाधिकस्य आत्मनः निरुपाधिकेन परब्रह्मस्वरूपेणैव यद्दर्शनं स तस्मिन् होमः तं कुर्वन्ति ब्रह्मात्मैकत्वदर्शननिष्ठाः संन्यासिनः इत्यर्थः ॥ २५ ॥

सर्वस्य श्रेयःसाधनस्य मुख्यगौणवृत्तिभ्यां यज्ञत्वं दर्शयन्नादौ यज्ञद्वयमादर्शयति -

दैवमेवेत्यादिना ।

प्रतीकमादाय दैवयज्ञं व्याचष्टे -

देवा इति ।

सम्यग्ज्ञानाख्यं यज्ञं विभजते -

ब्रह्माग्नाविति ।

तत्र ब्रह्मशब्दार्थं श्रृत्यवष्टम्भेन स्पष्टयति -

सत्यमिति ।

यदजडम् अनृतविपरीतम् अपरिच्छिन्नं ब्रह्म, तस्य परमानन्दत्वेन परमपुरुषार्थत्वमाह -

विज्ञानमिति ।

तस्य ज्ञानाधिकरणत्वेन ज्ञानत्वमौपचारिकम् , इत्याशङ्क्याह -

यत्साक्षादिति ।

जीवब्रह्मविभागे कथमपरिच्छिन्नत्वम् ? इत्याशङ्क्य विशिनष्टि -

य आत्मेति ।

परस्यैवात्मत्वं सर्वस्माद् देहादेरव्याकृतान्तात् आन्तरत्वेन साधयति -

सर्वान्तर इति ।

विधिमुखं सर्वमेवोपनिषद्वाक्यं ब्रह्मविषयमादिशब्दार्थः ।

निषेधमुखं ब्रह्मविषयमुपनिषद्वाक्यमशेषमेवार्थतो निबध्नाति -

अशनायेति ।

ब्रह्मण्यग्निशब्दप्रयोगे निमित्तमाह -

स होमेति ।

बुद्ध्यारूढतया सर्वस्य दाहकत्वात् विलयस्य वा हेतुत्वादिति द्रष्टव्यम् ।

यज्ञशब्दस्यात्मनि त्वम्पदार्थे प्रयोगे हेतुमाह -

आत्मनामस्विति ।

आधाराधेयभावेन वास्तवभेदं ब्रह्मात्मनोर्व्यावर्तयतिं -

परमार्थत इति ।

कथं तर्हि होमः ? नहि तस्यैव तत्र होमः सम्भवति, इत्याशङ्क्याह -

बुद्ध्यादीति ।

उपाधिसम्योगफलं कथयति -

अध्यस्तेति ।

उपाध्यध्यासद्वारा तद्धर्माध्यासे प्राप्तमर्थं निर्दिशति -

आहुतीति ।

इत्थम्भूतलक्षणां तृतीयामेव व्याकरोति -

उक्तेति ।

अशनायादिसर्वसंसारधर्मवर्जितेन निर्विशेषेण स्वरूपेणेति यावत् ।

आत्मनो ब्रह्मणि होममेव प्रकटयति -

सोपाधिकस्येति ।

अपर इत्यस्यार्थं स्फोरयति -

ब्रह्मेति ।

उक्तस्य ज्ञानयज्ञस्य दैवयज्ञादिषु ‘ब्रह्मार्पणम्’ इत्यादिश्लोकैरूपक्षिप्यमाणत्वं दर्शयति -

सोऽयमिति ।

उपक्षेपप्रयोजनमाह -

श्रेयानिति

॥ २५ ॥