मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
चतुर्थोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
अपाने
जुह्वति
प्राणं
प्राणेऽपानं
तथापरे
।
प्राणापानगती
रुद्ध्वा
प्राणायामपरायणाः
॥ २९ ॥
अपाने अपानवृत्तौ जुह्वति प्रक्षिपन्ति प्राणं प्राणवृत्तिम् , पूरकाख्यं प्राणायामं कुर्वन्तीत्यर्थः । प्राणे अपानं तथा अपरे जुह्वति, रेचकाख्यं च प्राणायामं कुर्वन्तीत्येतत् । प्राणापानगती मुखनासिकाभ्यां वायोः निर्गमनं प्राणस्य गतिः, तद्विपर्ययेण अधोगमनम् अपानस्य गतिः, ते प्राणापानगती एते रुद्ध्वा निरुध्य प्राणायामपरायणाः प्राणायामतत्पराः ; कुम्भकाख्यं प्राणायामं कुर्वन्तीत्यर्थः ॥ २९ ॥
प्राणेति
;
प्राणायामपरायणाः सन्तो रेचकं पूरकं च कृत्वा कुम्भकं कुर्वन्तीत्याह -
प्राणेति
॥ २९ ॥