श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥ ३० ॥
किञ्च —

प्राणापानयोर्गती - श्वासप्रश्वासौ निरुध्य किं कुर्वन्ति ? इत्यपेक्षायामाह -

किञ्चेति ।

प्राणापानगतिनिरोधरूपं कुम्भकं कृत्वा पुनःपुनर्वायुजयं कुर्वन्तीत्यर्थः । आहारस्य परिमितत्वं हितत्वमेध्यत्वोपलक्षणार्थम् ।