श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥
तत् विद्धि विजानीहि येन विधिना प्राप्यते इतिआचार्यान् अभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातः दीर्घनमस्कारः तेन, ‘कथं बन्धः ? कथं मोक्षः ? का विद्या ? का चाविद्या ? ’ इति परिप्रश्नेन, सेवया गुरुशुश्रूषया एवमादिनाप्रश्रयेण आवर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते ज्ञानं यथोक्तविशेषणं ज्ञानिनःज्ञानवन्तोऽपि केचित् यथावत् तत्त्वदर्शनशीलाः, अपरे ; अतो विशिनष्टि तत्त्वदर्शिनः इतिये सम्यग्दर्शिनः तैः उपदिष्टं ज्ञानं कार्यक्षमं भवति नेतरत् इति भगवतो मतम् ॥ ३४ ॥

तद्विज्ञानं गुरुभ्यो विद्धि, गुरवश्व प्रणिपातादिभिरुपायैः आवर्जितचेतसोवदिष्यन्ति, इत्याह -

तद्विद्धीति ।

उपदेष्टृत्वम् - उपदेशकर्तुत्वम् । परोक्षज्ञानमात्रेण न भवति, इत्याह -

उपदेक्ष्यन्तीति ।

तदिति प्रेप्सितं ज्ञानसाधनं गृह्यते । येन विधिना इति शेषदर्शनात् । यद्वा, येन आचार्यावर्जनप्रकारेण तदुपदेशवशात् अपेक्षितं ज्ञानं लभ्यते, तथा तज्ज्ञानमाचार्येभ्यो लभस्व इत्यर्थः ।

तदेव स्फुटयति -

आचार्या इति ।

एवमादिना इति आदिशब्देन शमादयो गृह्यन्ते, एवमादिना विद्धीति पूर्वेण सम्बन्धः ।

उत्तरार्धं व्याचष्टे-

प्रश्रयेणेति ।

प्रश्रयः - भक्तिश्रद्धापूर्वको निरतिशयो नातिविशेषः । यथोक्तविशेषणं पूर्वोक्तेन प्रकारेण प्रशस्यतममित्यर्थः ।

विशेषणस्य पौनरुक्त्यपरिहारार्थम् अर्थभेदं कथयति -

ज्ञानवन्तोऽपीति ।

ज्ञनिन इत्युक्त्वा पुनस्तत्त्वदर्शिन इति ब्रुवतो भगवतोऽभिप्रायमाह -

ये सम्यगिति ।

बहुवचनं चैतत् आचार्यविषयं, बहुभ्यः श्रोतव्यं बहुधा चेतिसामान्यान्यायाभ्यनुज्ञानार्थम् । न त्वात्मज्ञानमधिकृत्य आचार्यवहुत्वं विवक्षितम् । तस्य तत्त्वसाक्षात्कारवदाचार्यमात्रोपदेशादेव उदयसम्भवात् ॥ ३४ ॥