तद्विज्ञानं गुरुभ्यो विद्धि, गुरवश्व प्रणिपातादिभिरुपायैः आवर्जितचेतसोवदिष्यन्ति, इत्याह -
तद्विद्धीति ।
उपदेष्टृत्वम् - उपदेशकर्तुत्वम् । परोक्षज्ञानमात्रेण न भवति, इत्याह -
उपदेक्ष्यन्तीति ।
तदिति प्रेप्सितं ज्ञानसाधनं गृह्यते । येन विधिना इति शेषदर्शनात् । यद्वा, येन आचार्यावर्जनप्रकारेण तदुपदेशवशात् अपेक्षितं ज्ञानं लभ्यते, तथा तज्ज्ञानमाचार्येभ्यो लभस्व इत्यर्थः ।
तदेव स्फुटयति -
आचार्या इति ।
एवमादिना इति आदिशब्देन शमादयो गृह्यन्ते, एवमादिना विद्धीति पूर्वेण सम्बन्धः ।
उत्तरार्धं व्याचष्टे-
प्रश्रयेणेति ।
प्रश्रयः - भक्तिश्रद्धापूर्वको निरतिशयो नातिविशेषः । यथोक्तविशेषणं पूर्वोक्तेन प्रकारेण प्रशस्यतममित्यर्थः ।
विशेषणस्य पौनरुक्त्यपरिहारार्थम् अर्थभेदं कथयति -
ज्ञानवन्तोऽपीति ।
ज्ञनिन इत्युक्त्वा पुनस्तत्त्वदर्शिन इति ब्रुवतो भगवतोऽभिप्रायमाह -
ये सम्यगिति ।
बहुवचनं चैतत् आचार्यविषयं, बहुभ्यः श्रोतव्यं बहुधा चेतिसामान्यान्यायाभ्यनुज्ञानार्थम् । न त्वात्मज्ञानमधिकृत्य आचार्यवहुत्वं विवक्षितम् । तस्य तत्त्वसाक्षात्कारवदाचार्यमात्रोपदेशादेव उदयसम्भवात् ॥ ३४ ॥