श्रुतियुक्तिप्रयुक्तमैक्यज्ञानं तन्निवर्तकं इत्युत्तरमाह -
ज्ञानेति ।
संशयरहितस्यापि कर्माणि अनर्थहेतवो भवन्तीत्याशङ्क्य, आह-
योगेति ।
विषयपरवशस्य पुंसो योगायोगात् कुतो योगसंन्यस्तकर्मत्वम् ? इत्याशङ्क्य, आह -
आत्मवन्तमिति ।
परमार्थदर्शनतः संशयोच्छित्तौ तदुच्छेदकज्ञानमाहात्म्यादेव कर्मणां च निवृत्तौ, अप्रमत्तस्य प्रातिभासिकानि कर्माणि बन्धहेतवो न भवन्ति इत्याह -
न कर्माणीति ।
कर्मयोगादेव कर्मसंन्यासस्यानुपपत्तिम् आशङ्क्य आद्यं पादं विभजते -
परमार्थेति ।
तच्च वैधसंन्यासपक्षे परोक्षम् , फलसंन्यासपक्षे तु अपरोक्षमिति विवेकः ।
यथोक्तज्ञानेन संन्यस्तकर्मत्वमेव, सति संशये न सिध्यति, संशयवतस्तदयोगात् , इति शङ्कते -
कथमिति ।
द्वितीय पादं व्याकुर्वन् परिहरति -
आहेत्यादिना ।
पाठक्रमादर्थक्रमस्य बलीयस्त्वात् आदौ द्वितीयं पादं व्याख्याय पश्चादाद्यं पादं व्याचक्षीत इत्याह -
य एवमिति ।
सर्वमिदं प्रमादवतो विषयपरवशस्य न सिध्यति, इत्यभिसन्धाय, आत्मवन्तं व्याकरोति -
अप्रमत्तमिति ।
‘न कर्माणि’ इत्यादिफलोक्तिं व्याचष्टे -
गुणचेष्टेति ।
‘अनिष्टादि’ इत्यादिशब्देन इष्टं मिश्रं च गृह्यते ॥ ४१ ॥