श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम्
आत्मवन्तं कर्माणि निबध्नन्ति धनञ्जय ॥ ४१ ॥
योगसंन्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेन संन्यस्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं योगसंन्यस्तकर्माणम् । कथं योगसंन्यस्तकर्मेत्याह — ज्ञानसञ्छिन्नसंशयं ज्ञानेन आत्मेश्वरैकत्वदर्शनलक्षणेन सञ्छिन्नः संशयो यस्य सः ज्ञानसञ्छिन्नसंशयः । य एवं योगसंन्यस्तकर्मा तम् आत्मवन्तम् अप्रमत्तं गुणचेष्टारूपेण दृष्टानि कर्माणि न निबध्नन्ति अनिष्टादिरूपं फलं नारभन्ते हे धनञ्जय ॥ ४१ ॥

श्रुतियुक्तिप्रयुक्तमैक्यज्ञानं तन्निवर्तकं इत्युत्तरमाह -

ज्ञानेति ।

संशयरहितस्यापि कर्माणि अनर्थहेतवो भवन्तीत्याशङ्क्य, आह-

योगेति ।

विषयपरवशस्य पुंसो योगायोगात् कुतो योगसंन्यस्तकर्मत्वम् ? इत्याशङ्क्य, आह -

आत्मवन्तमिति ।

परमार्थदर्शनतः संशयोच्छित्तौ तदुच्छेदकज्ञानमाहात्म्यादेव कर्मणां च निवृत्तौ, अप्रमत्तस्य प्रातिभासिकानि कर्माणि बन्धहेतवो न भवन्ति इत्याह -

न कर्माणीति ।

कर्मयोगादेव कर्मसंन्यासस्यानुपपत्तिम् आशङ्क्य आद्यं पादं विभजते -

परमार्थेति ।

तच्च वैधसंन्यासपक्षे परोक्षम् , फलसंन्यासपक्षे तु अपरोक्षमिति विवेकः ।

यथोक्तज्ञानेन संन्यस्तकर्मत्वमेव, सति संशये न सिध्यति, संशयवतस्तदयोगात् , इति शङ्कते -

कथमिति ।

द्वितीय पादं व्याकुर्वन् परिहरति -

आहेत्यादिना ।

पाठक्रमादर्थक्रमस्य बलीयस्त्वात् आदौ द्वितीयं पादं व्याख्याय पश्चादाद्यं पादं व्याचक्षीत इत्याह -

य एवमिति ।

सर्वमिदं प्रमादवतो विषयपरवशस्य न सिध्यति, इत्यभिसन्धाय, आत्मवन्तं व्याकरोति -

अप्रमत्तमिति ।

‘न कर्माणि’ इत्यादिफलोक्तिं व्याचष्टे -

गुणचेष्टेति ।

‘अनिष्टादि’ इत्यादिशब्देन इष्टं मिश्रं च गृह्यते ॥ ४१ ॥