श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥ ४२ ॥
तस्मात् पापिष्ठम् अज्ञानसम्भूतम् अज्ञानात् अविवेकात् जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोकमोहादिदोषहरं सम्यग्दर्शनं ज्ञानं तदेव असिः खङ्गः तेन ज्ञानासिना आत्मनः स्वस्य, आत्मविषयत्वात् संशयस्य हि परस्य संशयः परेण च्छेत्तव्यतां प्राप्तः, येन स्वस्येति विशेष्येतअतः आत्मविषयोऽपि स्वस्यैव भवतिछित्त्वा एनं संशयं स्वविनाशहेतुभूतम् , योगं सम्यग्दर्शनोपायं कर्मानुष्ठानम् आतिष्ठ कुर्वित्यर्थःउत्तिष्ठ इदानीं युद्धाय भारत इति ॥ ४२ ॥

श्लोकाक्षराणि व्याचष्टे -

तस्मादित्यादिना ।

पापिष्ठमिति संशयस्य सर्वानर्थमूलत्वेन त्याज्यत्वं सूच्यते । विवेकाग्रहप्रसूतत्वादपि तस्यावहेयत्वम् , अविवेकस्यानर्थकरत्वप्रसिद्धेः, इत्याह -

अविवेकादिति ।

नच तस्य चैतन्यवदात्मनिष्ठत्वात् अत्याज्यत्वं शङ्कितव्यम् , इत्याह -

हृदीति ।

शोकमोहाभ्यामभिभृतस्य पुंसो मनसि प्रादुर्भवतः संशयस्य प्रबलप्रतिबन्धकाभावे नैव प्रध्वंसः सिध्येत् , इत्याशङ्क्याह -

ज्ञानासिनेति ।

स्वाश्रयस्य संशयस्य स्वाश्रयेणैव ज्ञानेन समुच्छेदसम्भवात् किमिति स्वस्येति विशेषणम् ? इत्याशङ्क्य, आह -

आत्मविषयत्वादिति ।

स्थाण्वादिविषयः संशयः, तद्विषयेण ज्ञानेन देवदत्तनिष्ठेन तन्निष्ठः व्यावर्त्यते । प्रकृते तु आत्मविषयः तदाश्रयश्च संशयः तथाविधेन ज्ञानेन अपनीयते । तेन विशेषणमर्थवदित्यर्थः । तदेव प्रपञ्चयति -

न हीति ।

आत्माश्रयत्वस्य प्रकृते संशये सिद्धत्वेनाविवक्षितत्वात् , तद्विषयस्य तद्विषयेणैव तस्य तेन निवृत्तिर्विवक्षिता, इत्युपसंहरति -

अत इति ।

संशयसमुच्छित्त्यनन्तरं कर्तव्यमुपदिशति -

छित्त्वैनमिति ।

अग्निहोत्रादिकं कर्म भगवदाज्ञया क्रमेण करिष्यामि, युद्धात्पुनः उपरिरंस इव, इत्याशङ्क्याह-

उत्तिष्ठेति ।

भरतान्वये महति क्षत्रियवंशे प्रसूतस्य समुपस्थितसमरविमुखत्वमनुचितमिति मन्वानः सन् आह -

भारतेति ।

तत् अनेन योगस्य कृत्रिमत्वं भगवतोऽनीश्वरत्वं च निराकृत्य कर्मादौ अकर्मादिदर्शनाद् आत्मनः सम्यग्ज्ञानात् प्रणिपातादेर्बहिरङ्गात् अन्तरङ्गाच्च श्रद्धादेरुद्भूतात् , अशेषानर्थनिवृत्त्या ब्रह्मभावमभिदधता, सर्वस्मादुत्कृष्टे तस्मिन् असंशयानस्याधिकारादशेषदोषवन्तम् । संशयं हित्वा उत्तमस्य ज्ञाननिष्ठा, अपरस्य कर्मनिष्ठा, इति स्थापितम् ॥ ४२ ॥

इत्यानन्दगिरिकृतगीताभाष्यटीकायां चतुर्थोऽध्यायः ॥ ४ ॥