श्लोकाक्षराणि व्याचष्टे -
तस्मादित्यादिना ।
पापिष्ठमिति संशयस्य सर्वानर्थमूलत्वेन त्याज्यत्वं सूच्यते । विवेकाग्रहप्रसूतत्वादपि तस्यावहेयत्वम् , अविवेकस्यानर्थकरत्वप्रसिद्धेः, इत्याह -
अविवेकादिति ।
नच तस्य चैतन्यवदात्मनिष्ठत्वात् अत्याज्यत्वं शङ्कितव्यम् , इत्याह -
हृदीति ।
शोकमोहाभ्यामभिभृतस्य पुंसो मनसि प्रादुर्भवतः संशयस्य प्रबलप्रतिबन्धकाभावे नैव प्रध्वंसः सिध्येत् , इत्याशङ्क्याह -
ज्ञानासिनेति ।
स्वाश्रयस्य संशयस्य स्वाश्रयेणैव ज्ञानेन समुच्छेदसम्भवात् किमिति स्वस्येति विशेषणम् ? इत्याशङ्क्य, आह -
आत्मविषयत्वादिति ।
स्थाण्वादिविषयः संशयः, तद्विषयेण ज्ञानेन देवदत्तनिष्ठेन तन्निष्ठः व्यावर्त्यते । प्रकृते तु आत्मविषयः तदाश्रयश्च संशयः तथाविधेन ज्ञानेन अपनीयते । तेन विशेषणमर्थवदित्यर्थः । तदेव प्रपञ्चयति -
न हीति ।
आत्माश्रयत्वस्य प्रकृते संशये सिद्धत्वेनाविवक्षितत्वात् , तद्विषयस्य तद्विषयेणैव तस्य तेन निवृत्तिर्विवक्षिता, इत्युपसंहरति -
अत इति ।
संशयसमुच्छित्त्यनन्तरं कर्तव्यमुपदिशति -
छित्त्वैनमिति ।
अग्निहोत्रादिकं कर्म भगवदाज्ञया क्रमेण करिष्यामि, युद्धात्पुनः उपरिरंस इव, इत्याशङ्क्याह-
उत्तिष्ठेति ।
भरतान्वये महति क्षत्रियवंशे प्रसूतस्य समुपस्थितसमरविमुखत्वमनुचितमिति मन्वानः सन् आह -
भारतेति ।
तत् अनेन योगस्य कृत्रिमत्वं भगवतोऽनीश्वरत्वं च निराकृत्य कर्मादौ अकर्मादिदर्शनाद् आत्मनः सम्यग्ज्ञानात् प्रणिपातादेर्बहिरङ्गात् अन्तरङ्गाच्च श्रद्धादेरुद्भूतात् , अशेषानर्थनिवृत्त्या ब्रह्मभावमभिदधता, सर्वस्मादुत्कृष्टे तस्मिन् असंशयानस्याधिकारादशेषदोषवन्तम् । संशयं हित्वा उत्तमस्य ज्ञाननिष्ठा, अपरस्य कर्मनिष्ठा, इति स्थापितम् ॥ ४२ ॥
इत्यानन्दगिरिकृतगीताभाष्यटीकायां चतुर्थोऽध्यायः ॥ ४ ॥