श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ननु कर्मयोगोऽपि आत्मस्वरूपनिरूपणप्रदेशेषु तत्र तत्र प्रतिपाद्यते एव ; तद्यथातस्माद्युध्यस्व भारत’ (भ. गी. २ । १८) स्वधर्ममपि चावेक्ष्य’ (भ. गी. २ । ३१) कर्मण्येवाधिकारस्ते’ (भ. गी. २ । ४७) इत्यादौअतश्च कथम् आत्मविदः कर्मयोगस्य असम्भवः स्यादिति ? अत्र उच्यतेसम्यग्ज्ञानमिथ्याज्ञानतत्कार्यविरोधात् , ज्ञानयोगेन साङ्ख्यानाम्’ (भ. गी. ३ । ३) इत्यनेन साङ्ख्यानाम् आत्मतत्त्वविदाम् अनात्मवित्कर्तृककर्मयोगनिष्ठातः निष्क्रियात्मस्वरूपावस्थानलक्षणायाः ज्ञानयोगनिष्ठायाः पृथक्करणात् , कृतकृत्यत्वेन आत्मविदः प्रयोजनान्तराभावात् , तस्य कार्यं विद्यते’ (भ. गी. ३ । १७) इति कर्तव्यान्तराभाववचनाच्च, कर्मणामनारम्भात्’ (भ. गी. ३ । ४) संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः’ (भ. गी. ५ । ६) इत्यादिना आत्मज्ञानाङ्गत्वेन कर्मयोगस्य विधानात् , योगारूढस्य तस्यैव शमः कारणमुच्यते’ (भ. गी. ६ । ३) इत्यनेन उत्पन्नसम्यग्दर्शनस्य कर्मयोगाभाववचनात् , शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्’ (भ. गी. ४ । २१) इति शरीरस्थितिकारणातिरिक्तस्य कर्मणो निवारणात् , नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित्’ (भ. गी. ५ । ८) इत्यनेन शरीरस्थितिमात्रप्रयुक्तेष्वपि दर्शनश्रवणादिकर्मसु आत्मयाथात्म्यविदःकरोमिइति प्रत्ययस्य समाहितचेतस्तया सदा अकर्तव्यत्वोपदेशात् आत्मतत्त्वविदः सम्यग्दर्शनविरुद्धो मिथ्याज्ञानहेतुकः कर्मयोगः स्वप्नेऽपि सम्भावयितुं शक्यते यस्मात् , तस्मात् अनात्मवित्कर्तृकयोरेव संन्यासकर्मयोगयोः निःश्रेयसकरत्ववचनम् , तदीयाच्च कर्मसंन्यासात् पूर्वोक्तात्मवित्कर्तृकसर्वकर्मसंन्यासविलक्षणात् सत्येव कर्तृत्वविज्ञाने कर्मैकदेशविषयात् यमनियमादिसहितत्वेन दुरनुष्ठेयात् सुकरत्वेन कर्मयोगस्य विशिष्टत्वाभिधानम् इत्येवं प्रतिवचनवाक्यार्थनिरूपणेनापि पूर्वोक्तः प्रष्टुरभिप्रायः निश्चीयते इति स्थितम्

आत्मस्वरूपनिरूपणप्रदेशेषु संन्यासप्रतिपादनाद् आत्मविदः संन्यासो विवक्षितश्चेत् , तर्हि कर्मयोगोऽपि तस्य कस्मान्न भवति ? प्रकरणाविशेषात् , इति शङ्कते -

ननु चेति ।

आत्मविद्याप्रकरणे कर्मयोगप्रतिपादनमुदाहरति -

तद्यथेति ।

प्रकरणात् आत्मविदोऽपि कर्मयोगस्य सम्भवे फलितमाह -

अतश्चेति ।

आत्मज्ञानोपायत्वेनापि प्रकरणपाठसिद्धौ ज्ञानादूर्ध्वं न्यायविरुद्धं कर्म कल्पयितुमशक्यमिति परिहरति -

अत्रोच्यत इति ।

सम्यग्ज्ञानमिथ्याज्ञानयोः तत्कार्ययोश्च भ्रमनिवृत्तिभ्रमसद्भावयोः मिथो विरोधात्कर्तृत्वादिभ्रममूलं कर्म सम्यग्ज्ञानादूर्ध्वं न सम्भवतीत्यर्थः ।

आत्मज्ञस्य कर्मयोगासम्भवे हेत्वन्तरमाह -

ज्ञानयोगेनेति ।

इतश्चात्मविदो ज्ञानादूर्ध्वं कर्मयोगो न युक्तिमान् , इत्याह -

कृतकृत्यत्वेनेति ।

ज्ञानवतो नास्ति कर्म इत्यत्र कारणान्तरमाह -

तस्येति ।

तर्हि ज्ञानवता कर्मयोगस्य हेयत्ववत् जिज्ञासुनापि तस्य त्याज्यत्वं, ज्ञानप्राप्त्या तस्यापि पुरुषार्थसिद्धेः, इत्याशङ्क्य, जिज्ञासोरस्ति कर्मयोगापेक्षा इत्याह -

न कर्मणामिति ।

स्वरूपोपकार्यङ्गमन्तरेण अङ्गिस्वरूपानिष्पत्तेः । ज्ञानानार्थिना कर्मयोगस्य शुद्ध्यादिद्वारा ज्ञानहेतोरादेयत्वमित्यर्थः ।

तर्हि ज्ञानवतमपि ज्ञानफलोपकारित्वेन कर्मयोगो मृग्यताम् , इत्याशङ्क्य आह -

योगारूढस्येति ।

उत्पन्नसम्यग्ज्ञानस्य कर्माभावे शरीरस्थितिहेतोरपि कर्मणोऽसम्भावत् न तस्य शरीरस्थितिः, तदस्थितौ च कुतो जीवन्मुक्तिः ? तदभावे च कस्योपदेष्टृत्वम् ? उपदेशाभावे च कुतो ज्ञानोदयः स्यात् ? इत्याशङ्क्य, आह -

शारीरमिति ।

विदुषोऽपि शरीरस्थितिरास्थिता चेत् , तन्मात्रप्रयुक्तेषु दर्शनश्रवणादिषु कर्तृत्वाभिमानोऽपि स्यात् , इत्याशङ्क्य आह -

नैवेति ।

तत्त्ववित् इत्यनेन च समाहितचेतस्तया करोमीति प्रत्ययस्य सदैव अकर्तव्यत्वोपदेशादिति सम्बन्धः ।

यत्तु विदुषः शरीरस्थितिनिमित्तकर्माभ्यनुज्ञाने तस्मिन्कर्तृत्वाभिमानोऽपि स्यादिति, तत्राह -

शरीरेति ।

आत्मयाथात्म्यविदः तेष्वपि नाहं करोमीति प्रत्ययस्य नैव किञ्चित्करोमीत्यादौ अकर्तृत्वोपदेशात् न कर्तृत्वाभिमानसम्भावना इत्यर्थः ।

यथोक्तोपदेशानुसन्धानाभावे विदुषोऽपि करोमीति स्वाभाविकप्रत्ययद्वारा कर्मयोगः स्यात् , इत्याशङ्क्य, आह -

आत्मतत्त्वेति ।

यद्यपि विद्वान् यथोक्तमुपदेशं कदाचित् नानुसन्धत्ते, तथापि तत्त्वविद्याविरोधात् मिथ्याज्ञानं तन्निमित्तं कर्म वा तस्य सम्भावयितुमशक्यमित्यर्थः ।

आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोरयोगात् तयोर्निः श्रेयसकरत्वम् अन्यतरस्य विशिष्टत्वम् , इत्येतदयुक्तमिति सिद्धत्वात् द्वितीयं पक्षमङ्गीकरोति -

यस्मादित्यादिना ।

तदीयाश्च कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानमिति सम्बन्धः ।

ननु कर्मयोगेन शुद्धबुद्धेः संन्यासो जायमानः तस्यादुत्कृष्यते, कथं तस्मात्कर्मयोगस्योत्कृष्टत्ववाचोयुक्तिर्युक्ता ? इति तत्राह -

पूर्वोक्तेति ।

वैलक्षण्यमेव स्पष्टयति -

सत्येवेति ।

स्वाश्रमविहितश्रवणादौ कर्तृत्वविज्ञाने सत्येव पूर्वाश्रमोपात्तकर्मैकदेश - विषयसंन्यासात् कर्मयोगस्य श्रेयस्त्ववचनं ‘नैतादृशं ब्राह्मणस्यास्ति वित्तम् ‘(म.भा. १२ - १७५ .३७) इत्यादिस्मृतिविरुद्धम् , इत्याशङ्क्य, आह -

यमनियमादीति ।

‘आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् ।
प्रीतिः प्रसादो माधुर्यमक्रोधश्च यमा दश ॥
दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ ।
व्रतोपवासौ मौनं च स्नानं च नियमा दश ॥ ‘

इत्युक्तैर्यमनिय मैः अन्यैश्चाश्रमधर्मैः विशिष्टत्वेनानुष्ठातुमशक्यत्वात् , उक्तसंन्यासात्कर्मयोगस्य विशिष्टत्वोक्तिर्युक्ता इत्यर्थः ।

नहि कश्चिदिति न्यायेन कर्मयोगस्य इतरापेक्षया सुकरत्वाच्च तस्य विशिष्टत्ववचनं श्लिष्टमित्याह -

सुकरत्वेन चेति ।

प्रतिवचनवाक्यार्थालोचनात्सिद्धमर्थमुपसंहरति -

इत्येवमिति ।

संन्यासकर्मयोगयोर्मिथोविरुद्धयोः समुच्चित्यानुष्ठातुमशक्ययोः अन्यतरस्य कर्तव्यत्वे, प्रशस्यतरस्य तद्भावात् तद्भावस्य चानिर्धारितत्वात् , तन्निर्दिधारयिषया प्रश्नः स्यादिति, प्रश्नवाक्यार्थपर्यालोचनया प्रष्टुरभिप्रायो यथा पूर्वमुपदिष्टः, तथा प्रतिवचनार्थनिरूपणेनापि तस्य निश्चितत्वात् प्रश्नोपपत्तिः सिद्धा इत्यर्थः ।