आत्मस्वरूपनिरूपणप्रदेशेषु संन्यासप्रतिपादनाद् आत्मविदः संन्यासो विवक्षितश्चेत् , तर्हि कर्मयोगोऽपि तस्य कस्मान्न भवति ? प्रकरणाविशेषात् , इति शङ्कते -
ननु चेति ।
आत्मविद्याप्रकरणे कर्मयोगप्रतिपादनमुदाहरति -
तद्यथेति ।
प्रकरणात् आत्मविदोऽपि कर्मयोगस्य सम्भवे फलितमाह -
अतश्चेति ।
आत्मज्ञानोपायत्वेनापि प्रकरणपाठसिद्धौ ज्ञानादूर्ध्वं न्यायविरुद्धं कर्म कल्पयितुमशक्यमिति परिहरति -
अत्रोच्यत इति ।
सम्यग्ज्ञानमिथ्याज्ञानयोः तत्कार्ययोश्च भ्रमनिवृत्तिभ्रमसद्भावयोः मिथो विरोधात्कर्तृत्वादिभ्रममूलं कर्म सम्यग्ज्ञानादूर्ध्वं न सम्भवतीत्यर्थः ।
आत्मज्ञस्य कर्मयोगासम्भवे हेत्वन्तरमाह -
ज्ञानयोगेनेति ।
इतश्चात्मविदो ज्ञानादूर्ध्वं कर्मयोगो न युक्तिमान् , इत्याह -
कृतकृत्यत्वेनेति ।
ज्ञानवतो नास्ति कर्म इत्यत्र कारणान्तरमाह -
तस्येति ।
तर्हि ज्ञानवता कर्मयोगस्य हेयत्ववत् जिज्ञासुनापि तस्य त्याज्यत्वं, ज्ञानप्राप्त्या तस्यापि पुरुषार्थसिद्धेः, इत्याशङ्क्य, जिज्ञासोरस्ति कर्मयोगापेक्षा इत्याह -
न कर्मणामिति ।
स्वरूपोपकार्यङ्गमन्तरेण अङ्गिस्वरूपानिष्पत्तेः । ज्ञानानार्थिना कर्मयोगस्य शुद्ध्यादिद्वारा ज्ञानहेतोरादेयत्वमित्यर्थः ।
तर्हि ज्ञानवतमपि ज्ञानफलोपकारित्वेन कर्मयोगो मृग्यताम् , इत्याशङ्क्य आह -
योगारूढस्येति ।
उत्पन्नसम्यग्ज्ञानस्य कर्माभावे शरीरस्थितिहेतोरपि कर्मणोऽसम्भावत् न तस्य शरीरस्थितिः, तदस्थितौ च कुतो जीवन्मुक्तिः ? तदभावे च कस्योपदेष्टृत्वम् ? उपदेशाभावे च कुतो ज्ञानोदयः स्यात् ? इत्याशङ्क्य, आह -
शारीरमिति ।
विदुषोऽपि शरीरस्थितिरास्थिता चेत् , तन्मात्रप्रयुक्तेषु दर्शनश्रवणादिषु कर्तृत्वाभिमानोऽपि स्यात् , इत्याशङ्क्य आह -
नैवेति ।
तत्त्ववित् इत्यनेन च समाहितचेतस्तया करोमीति प्रत्ययस्य सदैव अकर्तव्यत्वोपदेशादिति सम्बन्धः ।
यत्तु विदुषः शरीरस्थितिनिमित्तकर्माभ्यनुज्ञाने तस्मिन्कर्तृत्वाभिमानोऽपि स्यादिति, तत्राह -
शरीरेति ।
आत्मयाथात्म्यविदः तेष्वपि नाहं करोमीति प्रत्ययस्य नैव किञ्चित्करोमीत्यादौ अकर्तृत्वोपदेशात् न कर्तृत्वाभिमानसम्भावना इत्यर्थः ।
यथोक्तोपदेशानुसन्धानाभावे विदुषोऽपि करोमीति स्वाभाविकप्रत्ययद्वारा कर्मयोगः स्यात् , इत्याशङ्क्य, आह -
आत्मतत्त्वेति ।
यद्यपि विद्वान् यथोक्तमुपदेशं कदाचित् नानुसन्धत्ते, तथापि तत्त्वविद्याविरोधात् मिथ्याज्ञानं तन्निमित्तं कर्म वा तस्य सम्भावयितुमशक्यमित्यर्थः ।
आत्मवित्कर्तृकयोः संन्यासकर्मयोगयोरयोगात् तयोर्निः श्रेयसकरत्वम् अन्यतरस्य विशिष्टत्वम् , इत्येतदयुक्तमिति सिद्धत्वात् द्वितीयं पक्षमङ्गीकरोति -
यस्मादित्यादिना ।
तदीयाश्च कर्मसंन्यासात् कर्मयोगस्य विशिष्टत्वाभिधानमिति सम्बन्धः ।
ननु कर्मयोगेन शुद्धबुद्धेः संन्यासो जायमानः तस्यादुत्कृष्यते, कथं तस्मात्कर्मयोगस्योत्कृष्टत्ववाचोयुक्तिर्युक्ता ? इति तत्राह -
पूर्वोक्तेति ।
वैलक्षण्यमेव स्पष्टयति -
सत्येवेति ।
स्वाश्रमविहितश्रवणादौ कर्तृत्वविज्ञाने सत्येव पूर्वाश्रमोपात्तकर्मैकदेश - विषयसंन्यासात् कर्मयोगस्य श्रेयस्त्ववचनं ‘नैतादृशं ब्राह्मणस्यास्ति वित्तम् ‘(म.भा. १२ - १७५ .३७) इत्यादिस्मृतिविरुद्धम् , इत्याशङ्क्य, आह -
यमनियमादीति ।
‘आनृशंस्यं क्षमा सत्यमहिंसा दम आर्जवम् ।
प्रीतिः प्रसादो माधुर्यमक्रोधश्च यमा दश ॥
दानमिज्या तपो ध्यानं स्वाध्यायोपस्थनिग्रहौ ।
व्रतोपवासौ मौनं च स्नानं च नियमा दश ॥ ‘
इत्युक्तैर्यमनिय मैः अन्यैश्चाश्रमधर्मैः विशिष्टत्वेनानुष्ठातुमशक्यत्वात् , उक्तसंन्यासात्कर्मयोगस्य विशिष्टत्वोक्तिर्युक्ता इत्यर्थः ।
नहि कश्चिदिति न्यायेन कर्मयोगस्य इतरापेक्षया सुकरत्वाच्च तस्य विशिष्टत्ववचनं श्लिष्टमित्याह -
सुकरत्वेन चेति ।
प्रतिवचनवाक्यार्थालोचनात्सिद्धमर्थमुपसंहरति -
इत्येवमिति ।
संन्यासकर्मयोगयोर्मिथोविरुद्धयोः समुच्चित्यानुष्ठातुमशक्ययोः अन्यतरस्य कर्तव्यत्वे, प्रशस्यतरस्य तद्भावात् तद्भावस्य चानिर्धारितत्वात् , तन्निर्दिधारयिषया प्रश्नः स्यादिति, प्रश्नवाक्यार्थपर्यालोचनया प्रष्टुरभिप्रायो यथा पूर्वमुपदिष्टः, तथा प्रतिवचनार्थनिरूपणेनापि तस्य निश्चितत्वात् प्रश्नोपपत्तिः सिद्धा इत्यर्थः ।