श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
साङ्‍ख्ययोगौ पृथग्बालाः प्रवदन्ति पण्डिताः
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥ ४ ॥
ननु संन्यासकर्मयोगशब्देन प्रस्तुत्य साङ्‍ख्ययोगयोः फलैकत्वं कथम् इह अप्रकृतं ब्रवीति ? नैष दोषःयद्यपि अर्जुनेन संन्यासं कर्मयोगं केवलम् अभिप्रेत्य प्रश्नः कृतः, भगवांस्तु तदपरित्यागेनैव स्वाभिप्रेतं विशेषं संयोज्य शब्दान्तरवाच्यतया प्रतिवचनं ददौसाङ्‍ख्ययोगौइतितौ एव संन्यासकर्मयोगौ ज्ञानतदुपायसमबुद्धित्वादिसंयुक्तौ साङ्‍ख्ययोगशब्दवाच्यौ इति भगवतो मतम्अतः अप्रकृतप्रक्रियेति ॥ ४ ॥

साङ्ख्यायोगयोः एकफलत्ववचनं प्रकरणाननुगुणम् , इति शङ्कते -

नन्विति ।

अप्रकृतत्वमसिद्धम् , इति परिहरति -

नैष दोष इति ।

संन्यासं कर्मणामित्यादिना संन्यासं कर्मयोगं चाङ्गीकृत्य प्रश्ने, संन्यासः कर्मयोगश्चेत्यादिना तथैव प्रतिवचने च, कथं साङ्ख्ययोगयोः एकफलत्वम् अप्रकृतं न भवति ? इत्युच्यते, तत्राह –

यद्यपीति ।

प्रतिवचनमपि तदनुरूपमेव भगवता निरूपितमिति विशेषानुपपत्तिः, इत्याशङ्क्य, आह -

भगवांस्त्विति ।

तदपरित्यागेन इत्यत्र तत्पदेन प्रष्ट्र प्रतिनिर्दिष्टौ कर्मंसंन्यासकर्मयोगौ उच्येते । साङ्ख्ययोगाविति शब्दान्तरवाच्यतया तयोरेव संन्यासकर्मयोगयोः अत्यागेन स्वाभिप्रेतं च विशेषं संयोज्य भगवान् प्रतिवचनं ददौ, इति योजना ।

यदुक्तं - स्वाभिप्रेतं च विशेषं संयोज्य - इति, तदेतत् व्याक्तीकरोति -

तावेवेति ।

समबुद्धित्वादि इत्यादिशब्देन ज्ञानोपायभूतः शमादिः आदीयते ।

प्रकृतयोरेव संन्यासकर्मयोगयोः उपादाने फलितमाह -

अत इति ।

साङ्ख्ययोगौ इत्यादिश्लोकव्याख्यानसमाप्तिः इतिशब्दार्थः ॥ ४ ॥