साङ्ख्यायोगयोः एकफलत्ववचनं प्रकरणाननुगुणम् , इति शङ्कते -
नन्विति ।
अप्रकृतत्वमसिद्धम् , इति परिहरति -
नैष दोष इति ।
संन्यासं कर्मणामित्यादिना संन्यासं कर्मयोगं चाङ्गीकृत्य प्रश्ने, संन्यासः कर्मयोगश्चेत्यादिना तथैव प्रतिवचने च, कथं साङ्ख्ययोगयोः एकफलत्वम् अप्रकृतं न भवति ? इत्युच्यते, तत्राह –
यद्यपीति ।
प्रतिवचनमपि तदनुरूपमेव भगवता निरूपितमिति विशेषानुपपत्तिः, इत्याशङ्क्य, आह -
भगवांस्त्विति ।
तदपरित्यागेन इत्यत्र तत्पदेन प्रष्ट्र प्रतिनिर्दिष्टौ कर्मंसंन्यासकर्मयोगौ उच्येते । साङ्ख्ययोगाविति शब्दान्तरवाच्यतया तयोरेव संन्यासकर्मयोगयोः अत्यागेन स्वाभिप्रेतं च विशेषं संयोज्य भगवान् प्रतिवचनं ददौ, इति योजना ।
यदुक्तं - स्वाभिप्रेतं च विशेषं संयोज्य - इति, तदेतत् व्याक्तीकरोति -
तावेवेति ।
समबुद्धित्वादि इत्यादिशब्देन ज्ञानोपायभूतः शमादिः आदीयते ।
प्रकृतयोरेव संन्यासकर्मयोगयोः उपादाने फलितमाह -
अत इति ।
साङ्ख्ययोगौ इत्यादिश्लोकव्याख्यानसमाप्तिः इतिशब्दार्थः ॥ ४ ॥