श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं तर्हि योगात् संन्यास एव विशिष्यते ; कथं तर्हि इदमुक्तम् तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते’ (भ. गी. ५ । २) इति ? शृणु तत्र कारणम्त्वया पृष्टं केवलं कर्मसंन्यासं कर्मयोगं अभिप्रेत्य तयोः अन्यतरः कः श्रेयान् इतितदनुरूपं प्रतिवचनं मया उक्तं कर्मसंन्यासात् कर्मयोगः विशिष्यते इति ज्ञानम् अनपेक्ष्यज्ञानापेक्षस्तु संन्यासः साङ्‍ख्यमिति मया अभिप्रेतःपरमार्थयोगश्च एवयस्तु कर्मयोगः वैदिकः तादर्थ्यात् योगः संन्यास इति उपचर्यतेकथं तादर्थ्यम् इति उच्यते

यदि यथोक्तज्ञानपूर्वकसंन्यासद्वारा कर्मिणामपि श्रेयेऽवाप्तिरिष्टा, तर्हि संन्यासस्यैव श्रेयस्त्वं प्राप्तम् , इति चोदयति -

एवं तर्हीति ।

संन्यासस्य श्रेष्ठत्वे कर्मयोगस्य प्रशस्यत्ववचनमनुचितम् , इत्याह -

कथं तर्हिति ।

पूवोक्तमेव अभिप्रायं स्मारयन् परिहरति -

श्रृण्विति ।

कर्मयोगस्य विशिष्टत्ववचनं तत्रेति परामृष्टम् । तदेव कारणं कथयति -

त्वयेत्यादिना ।

केवलं विज्ञानरहितमिति यावत् । तयोरन्यतरः कः श्रेयानिति इतिशब्दोऽध्याहर्तव्यः ।

त्वदीयं प्रश्नमनुसृत्य  तदनुगुणं प्रतिवचनं ज्ञानमनपेक्ष्य, तद्रहितात् केवलादेव संन्यासात् योगस्य विशिष्टत्वमिति यथोक्तम् , इत्याह-

तदनुरूपमिति ।

ज्ञानापेक्षः संन्यासः तर्हि कीदृक् ? इत्याशङ्क्याह -

ज्ञानेति ।

तर्हि कर्मयोगे कथं योगशब्दः संन्यासशब्दो वा प्रयुज्यते ? तत्राह -

यस्त्विति ।

तादर्थ्यात् परमार्थज्ञानशेषत्वात् इति यावत् ।

तदेव तादर्थ्यं प्रश्नपूर्वकं प्रसाधयति -

कथमित्यादिना ।