यदि यथोक्तज्ञानपूर्वकसंन्यासद्वारा कर्मिणामपि श्रेयेऽवाप्तिरिष्टा, तर्हि संन्यासस्यैव श्रेयस्त्वं प्राप्तम् , इति चोदयति -
एवं तर्हीति ।
संन्यासस्य श्रेष्ठत्वे कर्मयोगस्य प्रशस्यत्ववचनमनुचितम् , इत्याह -
कथं तर्हिति ।
पूवोक्तमेव अभिप्रायं स्मारयन् परिहरति -
श्रृण्विति ।
कर्मयोगस्य विशिष्टत्ववचनं तत्रेति परामृष्टम् । तदेव कारणं कथयति -
त्वयेत्यादिना ।
केवलं विज्ञानरहितमिति यावत् । तयोरन्यतरः कः श्रेयानिति इतिशब्दोऽध्याहर्तव्यः ।
त्वदीयं प्रश्नमनुसृत्य तदनुगुणं प्रतिवचनं ज्ञानमनपेक्ष्य, तद्रहितात् केवलादेव संन्यासात् योगस्य विशिष्टत्वमिति यथोक्तम् , इत्याह-
तदनुरूपमिति ।
ज्ञानापेक्षः संन्यासः तर्हि कीदृक् ? इत्याशङ्क्याह -
ज्ञानेति ।
तर्हि कर्मयोगे कथं योगशब्दः संन्यासशब्दो वा प्रयुज्यते ? तत्राह -
यस्त्विति ।
तादर्थ्यात् परमार्थज्ञानशेषत्वात् इति यावत् ।
तदेव तादर्थ्यं प्रश्नपूर्वकं प्रसाधयति -
कथमित्यादिना ।