आदौ नित्याद्यनुष्ठानवतो रजस्तमोमलाभ्याम् अकलुषितं सत्त्वं सिध्यति, इत्याह -
विशुद्धेति ।
बुद्धिशुद्धौ, कार्यकरणसङ्घातस्यापि स्वाधीनत्वं भवति, इत्याह -
विजितेति ।
तस्य यथोक्तविशेषणवतो जायते सम्यग्दर्शित्वम् , इत्याह -
सर्वभूतेति ।
सम्यग्दर्शिनः तर्हि कर्मानुष्ठानं कुतस्त्यं ? तदनुष्ठाने वा कुतो बन्धविश्लेषसिद्धिः ? इत्याशङ्क्य, आह -
स तत्रेति ।
सम्यग्दर्शनं सप्तम्यर्थः
॥ ७ ॥