श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
योगयुक्तो विशुद्धात्मा
विजितात्मा जितेन्द्रियः
सर्वभूतात्मभूतात्मा
कुर्वन्नपि लिप्यते ॥ ७ ॥
योगेन युक्तः योगयुक्तः, विशुद्धात्मा विशुद्धसत्त्वः, विजितात्मा विजितदेहः, जितेन्द्रियश्च, सर्वभूतात्मभूतात्मा सर्वेषां ब्रह्मादीनां स्तम्बपर्यन्तानां भूतानाम् आत्मभूतः आत्मा प्रत्यक्चेतनो यस्य सः सर्वभूतात्मभूतात्मा सम्यग्दर्शीत्यर्थः, तत्रैवं वर्तमानः लोकसङ्ग्रहाय कर्म कुर्वन्नपि लिप्यते कर्मभिः बध्यते इत्यर्थः ॥ ७ ॥

आदौ नित्याद्यनुष्ठानवतो रजस्तमोमलाभ्याम् अकलुषितं सत्त्वं सिध्यति, इत्याह -

विशुद्धेति ।

बुद्धिशुद्धौ, कार्यकरणसङ्घातस्यापि स्वाधीनत्वं भवति, इत्याह -

विजितेति ।

तस्य यथोक्तविशेषणवतो जायते सम्यग्दर्शित्वम् , इत्याह -

सर्वभूतेति ।

सम्यग्दर्शिनः तर्हि कर्मानुष्ठानं कुतस्त्यं ? तदनुष्ठाने वा कुतो बन्धविश्लेषसिद्धिः ? इत्याशङ्क्य, आह -

स तत्रेति ।

सम्यग्दर्शनं सप्तम्यर्थः

॥ ७ ॥