श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥
सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं च तानि सर्वाणि कर्माणि मनसा विवेकबुद्ध्या, कर्मादौ अकर्मसन्दर्शनेन सन्त्यज्येत्यर्थः, आस्ते तिष्ठति सुखम् । त्यक्तवाङ्मनःकायचेष्टः निरायासः प्रसन्नचित्तः आत्मनः अन्यत्र निवृत्तसर्वबाह्यप्रयोजनः इति ‘सुखम् आस्ते’ इत्युच्यते । वशी जितेन्द्रिय इत्यर्थः । क्व कथम् आस्ते इति, आह — नवद्वारे पुरे । सप्त शीर्षण्यानि आत्मन उपलब्धिद्वाराणि, अवाक् द्वे मूत्रपुरीषविसर्गार्थे, तैः द्वारैः नवद्वारं पुरम् उच्यते शरीरम् , पुरमिव पुरम् , आत्मैकस्वामिकम् , तदर्थप्रयोजनैश्च इन्द्रियमनोबुद्धिविषयैः अनेकफलविज्ञानस्य उत्पादकैः पौरैरिव अधिष्ठितम् । तस्मिन् नवद्वारे पुरे देही सर्वं कर्म संन्यस्य आस्ते ; किं विशेषणेन ? सर्वो हि देही संन्यासी असंन्यासी वा देहे एव आस्ते ; तत्र अनर्थकं विशेषणमिति । उच्यते — यस्तु अज्ञः देही देहेन्द्रियसङ्घातमात्रात्मदर्शी स सर्वोऽपि ‘गेहे भूमौ आसने वा आसे’ इति मन्यते । न हि देहमात्रात्मदर्शिनः गेहे इव देहे आसे इति प्रत्ययः सम्भवति । देहादिसङ्घातव्यतिरिक्तात्मदर्शिनस्तु ‘देहे आसे’ इति प्रत्ययः उपपद्यते । परकर्मणां च परस्मिन् आत्मनि अविद्यया अध्यारोपितानां विद्यया विवेकज्ञानेन मनसा संन्यास उपपद्यते । उत्पन्नविवेकज्ञानस्य सर्वकर्मसंन्यासिनोऽपि गेहे इव देहे एव नवद्वारे पुरे आसनम् प्रारब्धफलकर्मसंस्कारशेषानुवृत्त्या देह एव विशेषविज्ञानोत्पत्तेः । देहे एव आस्ते इति अस्त्येव विशेषणफलम् , विद्वदविद्वत्प्रत्ययभेदापेक्षत्वात् ॥

सर्वकर्मपरित्यागे प्राप्तं मरणं व्यावर्तयति -

आस्त इति ।

वृत्तिं लभमानोऽपि शरीरतापेन आध्यात्मिकादिना तप्यमानः तिष्ठति इति चेत् , नेत्याह -

सुखमिति ।

कार्यकरणसङ्घातपारवश्यं पर्युदस्यति -

वशीति ।

आसनस्य अपेक्षितम् अधिकरणं निर्दिशति -

नवेति ।

देहसम्बन्धामिमानाभासवत्त्वम् आह -

देहीति ।

मनसा सर्वकर्मसन्यासेऽपि लोकसङ्ग्रहार्थं बहिः सर्वं कर्म कर्तव्यम् , इति प्राप्तं प्रत्याह -

नैवेति ।

तान्येव सर्वाणि कर्माणि परित्याज्यानि विशिनष्टि -

नित्यमिति ।

तेषां परित्यागे हेतुमाह -

तानीति ।

यदुक्तं सुखमास्त इति, तद् उपपादयति -

त्यक्तेति ।

जितेन्द्रियत्वं कायवशीकारस्यापि उपलक्षणम् । द्वे श्रोत्रे, द्वे चक्षुषी, द्वे नासिके, वागेका, इति सप्त शीर्षण्यानि शिरोगतानि शब्दाद्युपलब्धिद्वाराणि ।

अथापि कथं नवद्वारत्वम् ? अधोगताभ्यां पायूपस्थाभ्यां सह, इत्याह -

अर्वागिति ।

शरीरस्य पुरसाम्यं स्वामिना पौरैश्च अधिष्ठितत्वेन दर्शयति -

आत्मेत्यादिना ।

यद्यपि देहे जीवनत्वात् देहसम्बन्धाभिमानाभासवान् अवतिष्ठते, तथापि प्रवासीव परगेहे तत्पूजापरिभवादिभिरप्रहृष्यन् अविषीदन् व्यामोहादिरहितश्च तिष्ठति, इति मत्वा, आह -

तस्मिन्निति ।

विशेषणम् आक्षिपति -

किमिति ।

तदनुपपत्तिमेव दर्शयति -

सर्वो हीति ।

सर्वसाधारणे देहावस्थाने, संन्यस्य देहे तिष्ठति विद्वान् , इति विशेषणम् अकिञ्चित्करमिति फलितमाह -

तत्रेति ।

विशेषणफलं दर्शयन् उत्तरम् प्राह -

उच्यत इति ।

 किमविवेकिनं प्रति विशेषणानर्थक्यं चोद्यते ! किं वा विवेकिनं प्रति ? इति विकल्प्य, आद्यम् अङ्गीकरोति -

यस्त्विति ।

अज्ञत्वं देहित्वे हेतुः । तदेव देहित्वं स्फुटयति -

देहेति ।

सङ्घातात्मदर्शिनोऽपि देहे स्थितिप्रतिभासः स्याद् , इति चेत् नेत्याह -

नहीति ।

द्वितीयं दूषयति -

देहादीति ।

गृहादिषु देस्यावस्थानेन आत्मावस्थानभ्रमव्यावृत्त्यर्थं देहे विद्वान् आस्त इति  विशेषणम् उपपद्यते ; विवेकवतो देहे अवस्थानप्रतिभाससम्भवात् इत्यर्थः ।

ननु विवेकिनो देहावस्थानप्रतिभानेऽपि वाङ्मनोदेहव्यापारात्मनां कर्मणां तस्मिन् प्रसङ्गाभावात् , तत्त्यागेन कुतः तस्य देहेऽवस्थानम् उच्यते ? तत्राह -

परकर्मणां चेति ।

ननु विवेकिनो दिगाद्यनवच्छिन्नबाह्याभ्यन्तराविक्रियब्रह्मात्मतां मन्यमानस्य कुतो देहे अवस्थानम् आस्थातुं शक्यते ? तत्राह -

उत्पन्नेति ।

तत्र हेतुमाह -

प्रारब्धेति ।

यदि प्रारब्धफलं धर्माधर्मात्मकं कर्म तस्योपभुक्तस्य शेषात् अनुपभुक्ताद्देहादिसंस्कारोऽनुवर्तते तदनुवृत्त्या च तत्रैव देहे विशेषविज्ञानम् अवस्थानविषयम् उपपद्यते ; अतो विवेकवतः संन्यासिनो देहे अवस्थानव्यपदेशः सम्भवति, इत्यर्थः ।

अविद्वत्प्रत्ययापेक्षया विशेषणासम्भवेऽपि विद्वत्प्रत्ययापेक्षया विशेषणम् अर्थवत् , इति उपसंहरति -

देह एवेति ।

देहे स्वावस्थानविषयो विद्वत्प्रत्ययः, तदविषयश्चाविद्वत्प्रत्ययः, तयो एवं भेदे विद्वत्प्रत्ययापेक्षया विशेषणम् अर्थवत् , इति उपसंहरन्नेव हेतुं विशदयति -

विद्वदिति ।