श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥
सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं तानि सर्वाणि कर्माणि मनसा विवेकबुद्ध्या, कर्मादौ अकर्मसन्दर्शनेन सन्त्यज्येत्यर्थः, आस्ते तिष्ठति सुखम्त्यक्तवाङ्मनःकायचेष्टः निरायासः प्रसन्नचित्तः आत्मनः अन्यत्र निवृत्तसर्वबाह्यप्रयोजनः इतिसुखम् आस्तेइत्युच्यतेवशी जितेन्द्रिय इत्यर्थःक्व कथम् आस्ते इति, आहनवद्वारे पुरेसप्त शीर्षण्यानि आत्मन उपलब्धिद्वाराणि, अवाक् द्वे मूत्रपुरीषविसर्गार्थे, तैः द्वारैः नवद्वारं पुरम् उच्यते शरीरम् , पुरमिव पुरम् , आत्मैकस्वामिकम् , तदर्थप्रयोजनैश्च इन्द्रियमनोबुद्धिविषयैः अनेकफलविज्ञानस्य उत्पादकैः पौरैरिव अधिष्ठितम्तस्मिन् नवद्वारे पुरे देही सर्वं कर्म संन्यस्य आस्ते ; किं विशेषणेन ? सर्वो हि देही संन्यासी असंन्यासी वा देहे एव आस्ते ; तत्र अनर्थकं विशेषणमितिउच्यतेयस्तु अज्ञः देही देहेन्द्रियसङ्घातमात्रात्मदर्शी सर्वोऽपिगेहे भूमौ आसने वा आसेइति मन्यते हि देहमात्रात्मदर्शिनः गेहे इव देहे आसे इति प्रत्ययः सम्भवतिदेहादिसङ्घातव्यतिरिक्तात्मदर्शिनस्तुदेहे आसेइति प्रत्ययः उपपद्यतेपरकर्मणां परस्मिन् आत्मनि अविद्यया अध्यारोपितानां विद्यया विवेकज्ञानेन मनसा संन्यास उपपद्यतेउत्पन्नविवेकज्ञानस्य सर्वकर्मसंन्यासिनोऽपि गेहे इव देहे एव नवद्वारे पुरे आसनम् प्रारब्धफलकर्मसंस्कारशेषानुवृत्त्या देह एव विशेषविज्ञानोत्पत्तेःदेहे एव आस्ते इति अस्त्येव विशेषणफलम् , विद्वदविद्वत्प्रत्ययभेदापेक्षत्वात्

सर्वकर्मपरित्यागे प्राप्तं मरणं व्यावर्तयति -

आस्त इति ।

वृत्तिं लभमानोऽपि शरीरतापेन आध्यात्मिकादिना तप्यमानः तिष्ठति इति चेत् , नेत्याह -

सुखमिति ।

कार्यकरणसङ्घातपारवश्यं पर्युदस्यति -

वशीति ।

आसनस्य अपेक्षितम् अधिकरणं निर्दिशति -

नवेति ।

देहसम्बन्धामिमानाभासवत्त्वम् आह -

देहीति ।

मनसा सर्वकर्मसन्यासेऽपि लोकसङ्ग्रहार्थं बहिः सर्वं कर्म कर्तव्यम् , इति प्राप्तं प्रत्याह -

नैवेति ।

तान्येव सर्वाणि कर्माणि परित्याज्यानि विशिनष्टि -

नित्यमिति ।

तेषां परित्यागे हेतुमाह -

तानीति ।

यदुक्तं सुखमास्त इति, तद् उपपादयति -

त्यक्तेति ।

जितेन्द्रियत्वं कायवशीकारस्यापि उपलक्षणम् । द्वे श्रोत्रे, द्वे चक्षुषी, द्वे नासिके, वागेका, इति सप्त शीर्षण्यानि शिरोगतानि शब्दाद्युपलब्धिद्वाराणि ।

अथापि कथं नवद्वारत्वम् ? अधोगताभ्यां पायूपस्थाभ्यां सह, इत्याह -

अर्वागिति ।

शरीरस्य पुरसाम्यं स्वामिना पौरैश्च अधिष्ठितत्वेन दर्शयति -

आत्मेत्यादिना ।

यद्यपि देहे जीवनत्वात् देहसम्बन्धाभिमानाभासवान् अवतिष्ठते, तथापि प्रवासीव परगेहे तत्पूजापरिभवादिभिरप्रहृष्यन् अविषीदन् व्यामोहादिरहितश्च तिष्ठति, इति मत्वा, आह -

तस्मिन्निति ।

विशेषणम् आक्षिपति -

किमिति ।

तदनुपपत्तिमेव दर्शयति -

सर्वो हीति ।

सर्वसाधारणे देहावस्थाने, संन्यस्य देहे तिष्ठति विद्वान् , इति विशेषणम् अकिञ्चित्करमिति फलितमाह -

तत्रेति ।

विशेषणफलं दर्शयन् उत्तरम् प्राह -

उच्यत इति ।

 किमविवेकिनं प्रति विशेषणानर्थक्यं चोद्यते ! किं वा विवेकिनं प्रति ? इति विकल्प्य, आद्यम् अङ्गीकरोति -

यस्त्विति ।

अज्ञत्वं देहित्वे हेतुः । तदेव देहित्वं स्फुटयति -

देहेति ।

सङ्घातात्मदर्शिनोऽपि देहे स्थितिप्रतिभासः स्याद् , इति चेत् नेत्याह -

नहीति ।

द्वितीयं दूषयति -

देहादीति ।

गृहादिषु देस्यावस्थानेन आत्मावस्थानभ्रमव्यावृत्त्यर्थं देहे विद्वान् आस्त इति  विशेषणम् उपपद्यते ; विवेकवतो देहे अवस्थानप्रतिभाससम्भवात् इत्यर्थः ।

ननु विवेकिनो देहावस्थानप्रतिभानेऽपि वाङ्मनोदेहव्यापारात्मनां कर्मणां तस्मिन् प्रसङ्गाभावात् , तत्त्यागेन कुतः तस्य देहेऽवस्थानम् उच्यते ? तत्राह -

परकर्मणां चेति ।

ननु विवेकिनो दिगाद्यनवच्छिन्नबाह्याभ्यन्तराविक्रियब्रह्मात्मतां मन्यमानस्य कुतो देहे अवस्थानम् आस्थातुं शक्यते ? तत्राह -

उत्पन्नेति ।

तत्र हेतुमाह -

प्रारब्धेति ।

यदि प्रारब्धफलं धर्माधर्मात्मकं कर्म तस्योपभुक्तस्य शेषात् अनुपभुक्ताद्देहादिसंस्कारोऽनुवर्तते तदनुवृत्त्या च तत्रैव देहे विशेषविज्ञानम् अवस्थानविषयम् उपपद्यते ; अतो विवेकवतः संन्यासिनो देहे अवस्थानव्यपदेशः सम्भवति, इत्यर्थः ।

अविद्वत्प्रत्ययापेक्षया विशेषणासम्भवेऽपि विद्वत्प्रत्ययापेक्षया विशेषणम् अर्थवत् , इति उपसंहरति -

देह एवेति ।

देहे स्वावस्थानविषयो विद्वत्प्रत्ययः, तदविषयश्चाविद्वत्प्रत्ययः, तयो एवं भेदे विद्वत्प्रत्ययापेक्षया विशेषणम् अर्थवत् , इति उपसंहरन्नेव हेतुं विशदयति -

विद्वदिति ।