सर्वकर्मपरित्यागे प्राप्तं मरणं व्यावर्तयति -
आस्त इति ।
वृत्तिं लभमानोऽपि शरीरतापेन आध्यात्मिकादिना तप्यमानः तिष्ठति इति चेत् , नेत्याह -
सुखमिति ।
कार्यकरणसङ्घातपारवश्यं पर्युदस्यति -
वशीति ।
आसनस्य अपेक्षितम् अधिकरणं निर्दिशति -
नवेति ।
देहसम्बन्धामिमानाभासवत्त्वम् आह -
देहीति ।
मनसा सर्वकर्मसन्यासेऽपि लोकसङ्ग्रहार्थं बहिः सर्वं कर्म कर्तव्यम् , इति प्राप्तं प्रत्याह -
नैवेति ।
तान्येव सर्वाणि कर्माणि परित्याज्यानि विशिनष्टि -
नित्यमिति ।
तेषां परित्यागे हेतुमाह -
तानीति ।
यदुक्तं सुखमास्त इति, तद् उपपादयति -
त्यक्तेति ।
जितेन्द्रियत्वं कायवशीकारस्यापि उपलक्षणम् । द्वे श्रोत्रे, द्वे चक्षुषी, द्वे नासिके, वागेका, इति सप्त शीर्षण्यानि शिरोगतानि शब्दाद्युपलब्धिद्वाराणि ।
अथापि कथं नवद्वारत्वम् ? अधोगताभ्यां पायूपस्थाभ्यां सह, इत्याह -
अर्वागिति ।
शरीरस्य पुरसाम्यं स्वामिना पौरैश्च अधिष्ठितत्वेन दर्शयति -
आत्मेत्यादिना ।
यद्यपि देहे जीवनत्वात् देहसम्बन्धाभिमानाभासवान् अवतिष्ठते, तथापि प्रवासीव परगेहे तत्पूजापरिभवादिभिरप्रहृष्यन् अविषीदन् व्यामोहादिरहितश्च तिष्ठति, इति मत्वा, आह -
तस्मिन्निति ।
विशेषणम् आक्षिपति -
किमिति ।
तदनुपपत्तिमेव दर्शयति -
सर्वो हीति ।
सर्वसाधारणे देहावस्थाने, संन्यस्य देहे तिष्ठति विद्वान् , इति विशेषणम् अकिञ्चित्करमिति फलितमाह -
तत्रेति ।
विशेषणफलं दर्शयन् उत्तरम् प्राह -
उच्यत इति ।
किमविवेकिनं प्रति विशेषणानर्थक्यं चोद्यते ! किं वा विवेकिनं प्रति ? इति विकल्प्य, आद्यम् अङ्गीकरोति -
यस्त्विति ।
अज्ञत्वं देहित्वे हेतुः । तदेव देहित्वं स्फुटयति -
देहेति ।
सङ्घातात्मदर्शिनोऽपि देहे स्थितिप्रतिभासः स्याद् , इति चेत् नेत्याह -
नहीति ।
द्वितीयं दूषयति -
देहादीति ।
गृहादिषु देस्यावस्थानेन आत्मावस्थानभ्रमव्यावृत्त्यर्थं देहे विद्वान् आस्त इति विशेषणम् उपपद्यते ; विवेकवतो देहे अवस्थानप्रतिभाससम्भवात् इत्यर्थः ।
ननु विवेकिनो देहावस्थानप्रतिभानेऽपि वाङ्मनोदेहव्यापारात्मनां कर्मणां तस्मिन् प्रसङ्गाभावात् , तत्त्यागेन कुतः तस्य देहेऽवस्थानम् उच्यते ? तत्राह -
परकर्मणां चेति ।
ननु विवेकिनो दिगाद्यनवच्छिन्नबाह्याभ्यन्तराविक्रियब्रह्मात्मतां मन्यमानस्य कुतो देहे अवस्थानम् आस्थातुं शक्यते ? तत्राह -
उत्पन्नेति ।
तत्र हेतुमाह -
प्रारब्धेति ।
यदि प्रारब्धफलं धर्माधर्मात्मकं कर्म तस्योपभुक्तस्य शेषात् अनुपभुक्ताद्देहादिसंस्कारोऽनुवर्तते तदनुवृत्त्या च तत्रैव देहे विशेषविज्ञानम् अवस्थानविषयम् उपपद्यते ; अतो विवेकवतः संन्यासिनो देहे अवस्थानव्यपदेशः सम्भवति, इत्यर्थः ।
अविद्वत्प्रत्ययापेक्षया विशेषणासम्भवेऽपि विद्वत्प्रत्ययापेक्षया विशेषणम् अर्थवत् , इति उपसंहरति -
देह एवेति ।
देहे स्वावस्थानविषयो विद्वत्प्रत्ययः, तदविषयश्चाविद्वत्प्रत्ययः, तयो एवं भेदे विद्वत्प्रत्ययापेक्षया विशेषणम् अर्थवत् , इति उपसंहरन्नेव हेतुं विशदयति -
विद्वदिति ।