श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥ १९ ॥
इह एव जीवद्भिरेव तैः समदर्शिभिः पण्डितैः जितः वशीकृतः सर्गः जन्म, येषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं मनः अन्तःकरणम् । निर्दोषं यद्यपि दोषवत्सु श्वपाकादिषु मूढैः तद्दोषैः दोषवत् इव विभाव्यते, तथापि तद्दोषैः अस्पृष्टम् इति निर्दोषं दोषवर्जितं हि यस्मात् ; नापि स्वगुणभेदभिन्नम् , निर्गुणत्वात् चैतन्यस्य । वक्ष्यति च भगवान् इच्छादीनां क्षेत्रधर्मत्वम् , ‘अनादित्वान्निर्गुणत्वात्’ (भ. गी. १३ । ३१) इति च । नापि अन्त्या विशेषाः आत्मनो भेदकाः सन्ति, प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेः । अतः समं ब्रह्म एकं च । तस्मात् ब्रह्मणि एव ते स्थिताः । तस्मात् न दोषगन्धमात्रमपि तान् स्पृशति, देहादिसङ्घातात्मदर्शनाभिमानाभावात् तेषाम् । देहादिसङ्घातात्मदर्शनाभिमानवद्विषयं तु तत् सूत्रम् ‘समासमाभ्यां विषमसमे पूजातः’ (गौ. ध. २ । ८ । २०) इति, पूजाविषयत्वेन विशेषणात् । दृश्यते हि ब्रह्मवित् षडङ्गवित् चतुर्वेदवित् इति पूजादानादौ गुणविशेषसम्बन्धः कारणम् । ब्रह्म तु सर्वगुणदोषसम्बन्धवर्जितमित्यतः ‘ब्रह्मणि ते स्थिताः’ इति युक्तम् । कर्मविषयं च ‘समासमाभ्याम्’ (गौ. ध. २ । ८ । २०) इत्यादि । इदं तु सर्वकर्मसंन्यासविषयं प्रस्तुतम् , ‘सर्वकर्माणि मनसा’ (भ. गी. ५ । १३) इत्यारभ्य अध्यायपरिसमाप्तेः ॥ १९ ॥

स्मृतेर्गतिम् अग्रे वदिष्यन् निर्दोषत्वं समत्वदर्शिनां विशदयति -

इहैवेति ।

सर्वेषां चेतनानां साम्ये प्रवणमनसां ब्रह्मलोकगमनमन्तरेण तस्मिन्नेव देहे परिभूतजन्मनाम् अशेषदोषराहित्ये हेतुमाह -

निर्दोषं हीति ।

वर्तमानो देहः सप्तम्या परिगृह्यते । तानेव समदर्शिनो विशिनष्टि -

येषामिति ।

ननु ब्रह्मणो निर्दोषत्वमसिद्धं, दोषवत्सु श्वपाकादिषु तद्दोषैर्दोषवत्त्वोपलम्भसम्भवात् , तत्राह -

यद्यपीति ।

यस्मात् तत् निर्दोषं, तस्मात् तस्मिन्ब्रह्मणि स्थितैःनिर्दोषैः सर्गो जितः, इति सम्बन्धः ।

ब्रह्मणो गुणभूयस्त्वात् अल्पीयान्दोषोऽपि स्यात् इत्याशङ्क्य, आह -

नापीति ।

चेतनस्य गुणविशेषविशिष्टत्वमनिष्टं निर्गुणत्वश्रवणात् इत्ययुक्तम् , इच्छादीनां परिशेषाद् आत्मधर्मत्वस्य कैश्चित् निश्चितत्वात् , इत्याशङ्क्य, आह -

वक्ष्यति चेति ।

आत्मनो निर्गुणत्वे वाक्यशेषं प्रमाणयति -

अनादित्वादिति ।

चकारः, वक्ष्यतीत्यनेन सम्बन्धार्थः ।

गुणदोषवशाद् आत्मानो भेदाभावेऽपि भेदः अन्त्यविशेषेभ्यो भविष्यति, इति प्रसङ्गात् आशङ्क्य, दूषयति -

नापीति ।

प्रतिशरीरम् आत्मभेदसिद्धौ तद्धेतुत्वेन तेषां सत्त्वं, तेषां च सत्त्वे प्रतिशरीरम् आत्मनो भेदसिद्धिः, इति परस्पराश्रयत्वमभिप्रेत्य हेतुमाह -

प्रतिशरीरमिति ।

आत्मानो भेदकाभावे फलितमाह -

अत इति ।

समत्वमेव व्याकरोति -

एकं चेति ।

ब्रह्मणो निर्विशेषत्वेन एकत्वाज्जीवानां च भेदकाभावेन एकत्वस्योक्तत्वाद् एकलक्षणत्वात् एकत्वं जीवब्रह्मणोः एष्टव्यम् , इत्याह -

तस्मादिति ।

जीवब्रह्मणो एकत्वे जीावानां ब्रह्मवत् निर्देषत्वं सिध्यति, इत्याह -

तस्मान्नेति ।

तच्छब्दार्थमेव स्फोरयति -

देहादीति ।

यदि सर्वसत्त्वेषु समत्वदर्शनमदुष्टमिष्टं, तर्हि कथं गौतमसूत्रम् ? इत्याशङ्क्य, आह -

देहादिसङ्घातेति ।

सूत्रस्य यथोक्ताभिमानवद्विषयत्वे गमकमाह -

पूजेति ।

यदि वा चतुर्वेदानामेव सप्तां पूजया वैषम्यं, यदि वा चतुर्वेदानां षडङ्गविदां च पूजया साम्यं, तदा, तेषाम् उक्तपूजाविषयाणां केषाञ्चित् मनोविकारसम्भवे कर्ता प्रत्यवैति, इति अविद्वद्विषयत्वं सूत्रस्य प्रतिभाति, इत्यर्थः ।

तत्रैव च अनुभवम् अऩुकूलत्वेन उदाहरति -

दृश्यते हीति ।

देहादिसङ्घाताभिमानवतां गुणदोषसम्बन्धसम्भवात् तद्विषयं सूत्रम् , इत्युक्तम् । इदानीं ब्रह्मात्मदर्शनाभिमानवतां गुणदोषासम्बन्धात् न तद्विषय सूत्रम् , इत्यभिप्रेत्याह -

ब्रह्म त्विति ।

इतश्च नेदं सूत्रं ब्रह्मविद्विषयम् , इत्याह -

कर्मीति ।

तत्रैव पूजापरिभवसम्भवात् इत्यर्थः ।

ननु यत्र समत्वदर्शनं, तत्रैव तु इदं सूत्रं, नतु कर्मिणि अकर्मिणि वा इति विभागोऽस्ति, तत्राह -

इदं त्विति ।

समत्वदर्शनस्य संन्यासिविषयत्वेन प्रस्तुतत्वे हेतुमाह -

सर्वकर्माणीति ।

आऽध्यायपरिसमाप्तेः ‘सर्वकर्माणि’ इत्यारभ्य तत्र तत्र सर्वकर्मसंन्यासाभिधानात् तद्विषयम् इदं समत्वदर्शनं गम्यते । तत्र तन्निरहङ्कारे निरवकाशं सूत्रमित्यर्थः ॥ १९ ॥