श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्
स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ २० ॥
यस्मात् निर्दोषं समं ब्रह्म आत्मा, तस्मात् —

ननु - इष्टानिष्टप्राप्तिभ्यां हर्षविषादौ विद्वानपि कुर्वन् निर्दोषे ब्रह्मणि कथं स्थितिं लभेत ? इत्याशङ्क्य, आकाङ्क्षितं पूरयन् उत्तरश्लोकमुत्थापयति -

यस्मादिति ।

आत्मज्ञाननिष्ठावतो विदुषो हर्षविषादनिमित्ताभावात् न तौ उचितौ, इत्याह - स्थिरबुद्धिरिति ।