श्रीभगवानुवाच —
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ १ ॥
अनाश्रितः न आश्रितः अनाश्रितः । किम् ? कर्मफलं कर्मणां फलं कर्मफलं यत् तदनाश्रितः, कर्मफलतृष्णारहित इत्यर्थः । यो हि कर्मफले तृष्णावान् सः कर्मफलमाश्रितो भवति, अयं तु तद्विपरीतः, अतः अनाश्रितः कर्मफलम् । एवंभूतः सन् कार्यं कर्तव्यं नित्यं काम्यविपरीतम् अग्निहोत्रादिकं कर्म करोति निर्वर्तयति यः कश्चित् ईदृशः कर्मी स कर्म्यन्तरेभ्यो विशिष्यते इत्येवमर्थमाह — ‘स संन्यासी च योगी च’ इति । संन्यासः परित्यागः स यस्यास्ति स संन्यासी च, योगी च योगः चित्तसमाधानं स यस्यास्ति स योगी च इति एवंगुणसम्पन्नः अयं मन्तव्यः’ न केवलं निरग्निः अक्रिय एव संन्यासी योगी च इति मन्तव्यः । निर्गताः अग्नयः कर्माङ्गभूताः यस्मात् स निरग्निः, अक्रियश्च अनग्निसाधना अपि अविद्यमानाः क्रियाः तपोदानादिकाः यस्य असौ अक्रियः ॥ १ ॥