स्तुतिपरं वाक्यम् अक्षरयोजनार्थम् उदाहरति -
अनाश्रित इति ।
कर्मफलेऽभिलाषो नास्ति, इत्येतावता कथं तदनाश्रितत्ववाचोयुक्तिः ? इत्याशङ्क्य व्यतिरेकमुखेन विशदयति -
यो हीति ।
‘कार्यम्’ इत्यादि व्याकरोति -
एवंभूतः सन्निति ।
कथं कर्मिणः संन्यासित्वं योगित्वं च ? कर्मित्वविरोधात् , इत्याशङ्क्य, आह -
ईदृश इति ।
स्तुतेः अत्र विवक्षितत्वात् नानुपपत्तिः चोदनीया, इति मन्वानः सन् , आह -
इत्येवमिति ।
‘न निरग्निः’ (भ. गी. ६-१) इत्यादेः अर्थम् आह -
न केवलमिति ।
अग्नयो गार्हपत्याहवनीयान्वहार्थपचनप्रभृतयः । ननु - अनग्नित्वे सिद्धम् अक्रियत्वम् अग्निसाध्यत्वात् क्रियाणाम् , तथा च ‘न निरग्निः’ (भ. गी. ६-१) इत्येतावतैव अपेक्षितसिद्धेः ‘न चाक्रियः’ (भ. गी. ६-१) इत्यनर्थकम् , अर्थपुनरुक्तेः - इति, तत्र आह -
अनग्नीति
॥ १ ॥