श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः
संन्यासी योगी निरग्निर्न चाक्रियः ॥ १ ॥
अनाश्रितः आश्रितः अनाश्रितःकिम् ? कर्मफलं कर्मणां फलं कर्मफलं यत् तदनाश्रितः, कर्मफलतृष्णारहित इत्यर्थःयो हि कर्मफले तृष्णावान् सः कर्मफलमाश्रितो भवति, अयं तु तद्विपरीतः, अतः अनाश्रितः कर्मफलम्एवंभूतः सन् कार्यं कर्तव्यं नित्यं काम्यविपरीतम् अग्निहोत्रादिकं कर्म करोति निर्वर्तयति यः कश्चित् ईदृशः कर्मी कर्म्यन्तरेभ्यो विशिष्यते इत्येवमर्थमाह — ‘ संन्यासी योगी इतिसंन्यासः परित्यागः यस्यास्ति संन्यासी , योगी योगः चित्तसमाधानं यस्यास्ति योगी इति एवंगुणसम्पन्नः अयं मन्तव्यः केवलं निरग्निः अक्रिय एव संन्यासी योगी इति मन्तव्यःनिर्गताः अग्नयः कर्माङ्गभूताः यस्मात् निरग्निः, अक्रियश्च अनग्निसाधना अपि अविद्यमानाः क्रियाः तपोदानादिकाः यस्य असौ अक्रियः ॥ १ ॥

स्तुतिपरं वाक्यम् अक्षरयोजनार्थम् उदाहरति -

अनाश्रित इति ।

कर्मफलेऽभिलाषो नास्ति, इत्येतावता कथं तदनाश्रितत्ववाचोयुक्तिः ? इत्याशङ्क्य व्यतिरेकमुखेन विशदयति -

यो हीति ।

‘कार्यम्’ इत्यादि व्याकरोति -

एवंभूतः सन्निति ।

कथं कर्मिणः संन्यासित्वं योगित्वं च ? कर्मित्वविरोधात् , इत्याशङ्क्य, आह -

ईदृश इति ।

स्तुतेः अत्र विवक्षितत्वात् नानुपपत्तिः चोदनीया, इति मन्वानः सन् , आह -

इत्येवमिति ।

‘न निरग्निः’ (भ. गी. ६-१) इत्यादेः अर्थम् आह -

न केवलमिति ।

अग्नयो गार्हपत्याहवनीयान्वहार्थपचनप्रभृतयः । ननु - अनग्नित्वे सिद्धम् अक्रियत्वम् अग्निसाध्यत्वात् क्रियाणाम् , तथा च ‘न निरग्निः’ (भ. गी. ६-१) इत्येतावतैव अपेक्षितसिद्धेः ‘न चाक्रियः’ (भ. गी. ६-१) इत्यनर्थकम् , अर्थपुनरुक्तेः - इति, तत्र आह -

अनग्नीति

॥ १ ॥