श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः
संन्यासी योगी निरग्निर्न चाक्रियः ॥ १ ॥
ननु किमर्थं ध्यानयोगारोहणसीमाकरणम् , यावता अनुष्ठेयमेव विहितं कर्म यावज्जीवम् । न, ‘आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते’ (भ. गी. ६ । ३) इति विशेषणात् , आरूढस्य च शमेनैव सम्बन्धकरणात् । आरुरुक्षोः आरूढस्य च शमः कर्म च उभयं कर्तव्यत्वेन अभिप्रेतं चेत्स्यात् , तदा ‘आरुरुक्षोः’ ‘आरूढस्य च’ इति शमकर्मविषयभेदेन विशेषणं विभागकरणं च अनर्थकं स्यात् ॥

समुच्चयवादी सीमाकरणम् आक्षिपति -

नन्विति ।

यावज्जीवश्रतिवशात् ध्यानारोहणसामर्थ्ये सत्यपि कर्मानुष्ठानस्य दुर्वारत्वात् , इति हेतुम् आह -

यावतेति ।

भार्यावियोगादिप्रतिबन्धात् यावज्जीवश्रुतिचोदितकर्माननुष्ठानवत् वैराग्यप्रतिबन्धादपि तदननुष्ठानसम्भवात् भगवतो विशेषवचनाच्च न यावज्जीवं कर्मानुष्ठानप्रसक्तिः, इति परिहरति -

नारुरुक्षोरिति ।

उक्तमेवार्थं व्यतिरेकद्वारेण विवृणोति -

आरुरुक्षोरित्यादिना ।

आरोढुम् इच्छति इति - आरुरुक्षुः, इत्यत्र आरोहणेच्छा विशेषणम् , आरोहणं कृतवान् इति - आरूढः, इत्यत्र पुनः इच्छाविषयभूतम् आरोहणं विशेषणम् । एवं शमकर्मविषययोः भेदेन विशेषणं मर्यादाकरणानङ्गीकरणे विरुद्धम् आपद्यते । तयोरेवं विभागकरणं च भागवतं सीमानङ्गीकारे न युज्येत, इत्यर्थः ।