श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः
संन्यासी योगी निरग्निर्न चाक्रियः ॥ १ ॥
तत्र आश्रमिणां कश्चित् योगमारुरुक्षुः भवति, आरूढश्च कश्चित् , अन्ये न आरुरुक्षवः न च आरूढाः ; तानपेक्ष्य ‘आरुरुक्षोः’ ‘आरूढस्य च’ इति विशेषणं विभागकरणं च उपपद्यत एवेति चेत् , न ; ‘तस्यैव’ इति वचनात् , पुनः योगग्रहणाच्च ‘योगारूढस्य’ इति ; य आसीत् पूर्वं योगमारुरुक्षुः, तस्यैव आरूढस्य शम एव कर्तव्यः कारणं योगफलं प्रति उच्यते इति । अतो न यावज्जीवं कर्तव्यत्वप्राप्तिः कस्यचिदपि कर्मणः । योगविभ्रष्टवचनाच्च — गृहस्थस्य चेत् कर्मिणो योगो विहितः षष्ठे अध्याये, सः योगविभ्रष्टोऽपि कर्मगतिं कर्मफलं प्राप्नोति इति तस्य नाशाशङ्का अनुपपन्ना स्यात् । अवश्यं हि कृतं कर्म काम्यं नित्यं वा — मोक्षस्य नित्यत्वात् अनारभ्यत्वे — स्वं फलं आरभत एव । नित्यस्य च कर्मणः वेदप्रमाणावबुद्धत्वात् फलेन भवितव्यम् इति अवोचाम, अन्यथा वेदस्य आनर्थक्यप्रसङ्गात् इति । न च कर्मणि सति उभयविभ्रष्टवचनम् , अर्थवत् कर्मणो विभ्रंशकारणानुपपत्तेः ॥

विशेषणविभागकरणयोः अन्यथा उपपत्तिम् आशङ्कते -

तत्रेति ।

व्यवहारभूमिः सप्तम्यर्थः । षष्ठी निर्धारणे ।

भवतु अधिकारिणां त्रैविध्यम् , तथापि प्रकृते विशेषणादौ किमायातम् ? इत्याशङ्क्य, तृतीयापेक्षया तदुपपत्तिः, इत्याह -

तानपेक्ष्येति ।

आरुरुक्षोः आरूढस्य च भेदे ‘तस्यैव ‘इति प्रकृतपरामर्शानुपपत्तिः, इति दूषयति -

न तस्येति ।

यदि अनारुरुक्षुं पुरुषम् अपेक्ष्य ‘अारुरुक्षोः’ इति विशेषणम् , तस्य च कर्म आरोहणकारणम् , अनारूढं च पुरुषम् अपेक्ष्य ‘आरूढस्य’ इति विशेषणम् , तस्य च शमः संन्यासः योगफलप्राप्तौ कारणम् , इति विशेषणविभागकरणयोः उपपत्तिः ; तदा आरुरुक्षोः आरूढस्य च भिन्नत्वात् प्रकृतपरामर्शिनः तच्छब्दस्यानुपपत्तेः न युक्तम् विशेषणाद्युपपादनम् , इत्यर्थः ।

किञ्च  योगम् आरुरुक्षोः तदारोहणे कारणं कर्म इत्युक्त्वा पुनः ‘योगारूढस्य’ इति योगशब्दप्रयोगात् यो योगं पूर्वम् आरुरुक्षुः आसीत् , तस्यैव अपेक्षितं योगम् आरूढस्य तत्फलप्राप्तौ कर्मसंन्यासः शमशब्दवाच्यो हेतुत्वेन कर्तव्य इति वचनात् आरुरुक्षोः आरूढस्य च अभिन्नत्वप्रत्यभिज्ञानात् ऩ तयोर्भिन्नत्वं शङ्कितुं शक्यम् , इत्याह -

पुनरिति ।

यत्तु   - यावज्जीवश्रुतिविरोधात् योगारोहणसीमाकरणं कर्मणोऽनुचितम् - इति, तत्राह -

अत इति ।

पूर्वोक्तरीत्या कर्मतत्त्यागयोः विभागोपपत्तौ श्रुतेः अन्यविषयत्वात् योगम् आरूढस्य मुमुक्षोः जिज्ञासमानस्य नित्यनैमित्तिककर्मस्वपि परित्यागसिद्धिः, इत्यर्थः ।

इतश्च यावज्जीवं कर्म कर्तव्यं न भवति, इत्याह -

योगेति ।

संन्यासिनो योगभ्रष्टस्य विनाशशङ्कावचनात् न यावज्जीवं कर्म कर्तव्यं प्रतिभाति, इत्यर्थः ।

ननु - योगभ्रष्टशब्देन गृहस्थस्यैव अभिधानात् तस्यैव अस्मिन्नध्याये योगविधानात् योगारोहणयोग्यत्वे सत्यपि यावज्जीवं कर्म कर्तव्यम्   - इति, नेत्याह -

गृहस्थस्येति ।

तेनापि मुमुक्षुणा कृतस्य कर्मणो मोक्षातिरिक्तफलानारम्भकत्वात् योगभ्रष्टोऽसौ छिन्नाभ्रमिव नश्यति, इति शङ्का सावकाशा, इत्याशङ्क्य, आह -

अवश्यं हीति ।

अपौरुषेयात् निर्दोषात् वेदात् फलदायिनी कर्मणः स्वाभाविकी शक्ति अवगता । ब्रह्मभावस्य च स्वतस्सिद्धत्वात् न कर्मफलत्वम् । अतो मोक्षातिरिक्तस्येव फलस्य कर्मारम्भकमिति कर्मिणि योगभ्रष्टेऽपि कर्मगतिं गच्छति इति निरवकाशा शङ्का, इत्यर्थः ।

ननु - मुमुक्षुणा काम्यप्रतिषिद्धयोः अकरणात् कृतयोश्च नित्यनैमित्तिकयोः अफलत्वात् - कथं तदीयस्य कर्मणो नियमेन फलारम्भकत्वम् ? तत्र आह -

नित्यस्य चेति ।

चकारेण नैमित्तिकं कर्म अनुकृष्यते ।

वेदप्रमणकत्वेऽपि नित्यनैमित्तिकयोः अफलत्वे दोषम् आह -

अन्यथेति ।

कर्मणोऽनुष्ठितस्य फलारम्भकत्वध्रौव्यात् गृहस्थो योगभ्रष्टोऽपि कर्मगतिं गच्छतीति न तस्य नाशाशङ्का, इति शेषः ।

इतोऽपि गृहस्थो योगभ्रष्टशब्दवाच्यो न भवति, इत्याह -

न चेति ।

ज्ञानं कर्म च इत्युभयम् , ततो भ्रष्टोऽयं नश्यति इति वचनम् , गृहस्थे कर्मिणि सति नार्थवद् भवितुम् अलम् , तस्य कर्मनिष्ठस्य कर्मणो विभ्रंशे हेत्वभावात् तत्फलस्य आवश्यकत्वात् , इत्यर्थः ।