श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः
संन्यासी योगी निरग्निर्न चाक्रियः ॥ १ ॥
कर्म कृतम् ईश्वरे संन्यस्य इत्यतः कर्तुः कर्म फलं नारभत इति चेत् , न ; ईश्वरे संन्यासस्य अधिकतरफलहेतुत्वोपपत्तेः ॥

कृतस्य कर्मणो मुमुक्षुणा भगवति समर्पणात् कर्तरि फलानारम्भकत्वात् अस्ति विभ्रंशकारणम् , इति शङ्कते -

कर्मेति ।

राजाराधनबुद्ध्या धनधान्यादिसमर्पणस्य अधिकफलहेतुत्वोपलम्भात् ईश्वरे समर्पणं न भ्रंशकारणम् , इति दूषयति -

नेत्यादिना ।